________________
२२१
पद्मपुराणम् ।
नवमं पर्व ।
ततो भीती भृशं दूतो गत्वा वृत्तांतवेदनात् । दशास्यस्य परं क्रोधो चक्रे दुस्सहतेजसः ॥ ७० ॥ सैन्यावृतश्च सन्न प्रस्थितस्त्वरया पुरं । परमाणुभिरारब्धः सहि दर्पमयैरिव ॥ ७१ ॥ ततः परबलध्वानं श्रुत्वा व्योमपिधायिनं । निर्गतुं मानसं चक्रे वालिः संग्रामदक्षिणः ॥ ७२ ॥ तावत्सागरवृद्धयादिमंत्रिभिर्नयशालिभिः । ज्वलत्क्रोधेन नीतोऽसाविति वागंबुभिः शमं ॥ ७३ ॥ अकारणेन देवालं विग्रहेण क्षमां कुरु । अनेके हि क्षयं याताः स्वच्छंदं संयुगप्रियाः ॥ ७४ ॥ अर्ककीर्तिभुजाधारा रक्षमाणाः सुरैरपि । अष्टचंद्राः क्षयं प्राप्ता मेघेस्वरशरोत्करैः ॥ ७५ ॥ बहुसैन्यं दुरालोकमसिरत्नगदाधरं । अतुलां संशयतुलां ततो नारोदुमर्हसि ।। ७६ ।। जगादेति ततो वालिर्युक्तं नात्मप्रशंसनं । तथापि परमार्थ वो मंत्रिणः कथयाम्यहं ॥ ७७ ॥ भ्रूलतात्क्षेपमात्रेण दशवक्त्रं ससैन्यकं । शक्तोऽस्मि कणशः कर्तुं वामपाणितलाहतं ॥ ७८ ॥ किं तर्हि दारुणं कृत्वा क्रोधाग्निं ज्वलितं मनः । कर्मणा येन लभ्यंत भोगाः क्षणविनश्वराः || ७९ || प्राप्य तान्कदलीस्तंभनिस्सारान्मोहवाहिताः । पतंति नरके जीवा महादुःखमहाकुले ॥ ८० ॥ हिंसित्वा जंतुसंघातं नितांतं प्रियजीवितं । दुःखं कृतसुखाभिख्यं प्राप्यते तेन को गुणः ॥ ८१ ॥ | अरघट्टघटीयंत्रसदृशाः प्राणधारिणः । शश्वद्भवमहाकूपे भ्रमत्यत्यंत दुःखिताः ॥ ८२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org