________________
पद्मपुराणम् ।
नवमं पर्व ।
स्वसारं च प्रपच्छेमां श्रीप्रभाख्यां मया सह । संबंधं प्राप्य ते सर्व भविष्यति सुखावहं ॥ ५७ ॥ इत्युक्ते विमुखं ज्ञात्वा वालिं प्रणमनं प्रति । आननस्य विकारेण दूतः पुनरुदाहरत् ।। ५८ ।। किमत्र बहुनोक्तेन कुरु शाखामृगश्रुतौ । मदीयं निश्चितं वाक्यमल्पलक्ष्मीविडंबित ।। ५९ ।। कुरु सज्ज करं दातुमादातुं वा युधं करौ । गृहाण चापरं शीघ्रं ककुभां वा कदंबकं ।। ६० । शिरो नमय चापं वा नयाज्ञां कर्णपूरतां । मौवीं वा दुस्सहारावानात्मजीवितदायिनीं ॥ ६१ ॥ मत्पादजं रजो मूर्ध्नि शिरस्त्रमथवा कुरु । घटयांजलिमुद्रवृत्य करिणां या महाचयं ॥ ६२ ॥ विमुंचेषु धरित्रीं वा भजैकं वेत्रकुंतयोः । पश्य मेंघ्रिनखे वक्रमथवा खड़दर्पणे ॥ ६३ ॥ ततः परुषवाक्येन दूतस्योद्भूतमानसः । नाम्ना व्याघ्रविलंबीति वभाण भटसत्तमः || ६४ ॥ समस्तधरणीव्यापिपराक्रमगुणोदयः । वालिदेवो न किं यातः कर्णजाहं कुरक्षसः ॥ ६५ ॥ यद्येवं भाषसे व्यक्तं गृहीतो वा ग्रहेण सः । त्वं तु स्वस्थः किमित्येवं दूताधम विकत्थसे ||६६ || क्रोधमूर्छित इत्युक्त्वा दुःप्रेक्षः स्पष्टवेपथुः । गृहाण सायकं रुद्धो बलिनेति च चोदितः ॥६७॥ किं दूतेन वराकेण हतेन प्रेषकारिणा । कुर्वत्येते हि नाथीयवचसः प्रतिशब्दकं ।। ६८ ।। दशास्यस्यैव कर्तव्यं यदभिप्रायमाश्रितं । आयुर्मूनमियत्तस्य कुरुते यत्कुभाषितं ॥ ६९ ॥
Jain Education International
२२०
For Private & Personal Use Only
www.jainelibrary.org