________________
पद्मपुराणम् ।
२१९
नवमं पर्व । अतोऽयं प्रतिपक्षेण गर्भ एव विराधितः । ततो विराधिताभिख्यां प्रापितो भोगवर्जितः ॥४४॥ न तस्य गौरवं चक्रे कश्चिदप्यवनौ नरः । प्रच्युतस्य निजस्थानात्केशस्येवोत्तमांगतः ॥ ४५ ॥ प्रतिकर्तुमशक्तोऽसौ वैरं चित्तेन धारयन् । आचारागतवृत्तिस्थो देशान् पर्याट वांक्षितान् ॥४६॥ रेमे वर्षधराग्रेषु काननेषु च चारुषु । तथातिशयदेशेषु गीर्वाणागमनेषु च ॥४७॥ ध्वजछत्रादिरम्येषु संकुलेषु गजादिभिः । वीराणां विभ्रमं पश्यन् संग्रामेषु समं सुरैः ॥४८॥ नगर्यामथ लंकायां सुरेशस्येव तिष्ठतः । परान् प्राप्नुवतो भोगान् दशवक्रस्य भास्वतः॥४९॥ प्रतिकूलितवानाज्ञां वालिर्बलसमन्वितः । विद्यामिरद्भुतं कर्म कुवेतीभिरुपासितः ॥५०॥ दशास्येन ततो दूतः प्रेषितोऽस्मै महामतिः । जगाद वानराधीशं स्वामिनो मानमुहहन् ॥५१॥ अनन्यसदृशे क्षेत्रे भरतस्मिन् प्रतापवान् । महाबलो महातेजा श्रीमानयविशारदः ॥ ५२ ॥ महासाधनसंपन्न उग्रदंडो महोदयः । आज्ञापयति देवस्त्वां शत्रुमर्दो दशाननः ॥ ५३ ॥ यमारातिं समुद्वास्य भवतोर्करजाः पिता । मया किष्किधनाथत्वे स्थापितो वानरान्वये ॥५४॥ विस्मृत्य सुकृतं कृत्यं स त्वं जनयितुः परं । कुरुते प्रत्यवस्थानमिति साधोने युज्यते ॥ ५५ ॥ पितुस्ते सदृशीं प्रीतिमधिको वा करोम्यहं । अद्याप्येहि प्रणामं मे कुरु स्थातुं यथा सुखं ॥५६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org