________________
ર૮
पद्मपुराणम् ।
नवमं पर्व । तावन्मंदोदरी बढ़ा करद्वयसरोरुहं । व्यज्ञापयदिति व्यक्तज्ञातलौकिकसंस्थितिः ॥ ३१ ॥ कन्या नाम प्रभो ! देया परस्मायेव निश्चयात् । उत्पत्तिरेव तासां हि तादृशी सार्वलौकिकी ३२ खेचराणां सहस्राणि संति तस्य चतुर्दश । ये वीर्यकृतसन्नाहाः समरादनिवर्तिनः ॥ ३३ ॥ बहून्यस्य सहस्राणि विद्यानां दपेशालिनः । सिद्धानीति न किं लोकाद्भवता श्रवणे कृतं ॥३४॥ प्रवृत्ते दारुणे युद्धे भवतोः समशौर्ययोः । संदेह एव जायेत जयस्यान्यतरं प्रति ॥ ३५॥ कथंचिच हतेप्यस्मिन् कन्या हरणदृषिता । अन्यस्मै नैव विश्राण्या केवलं विधवा भवेत् ॥३६॥ किं च सूर्यरजोमुक्ते त्वत्पुरे प्रत्यवस्थितं । अलंकारोदये नाम्ना चंद्रोदरनभश्चरं ॥ ३७॥ निर्वास्यासौ स्थितः साधं तव स्वस्रा महाबलः । उपकारित्वमेतस्मात्संप्राप्तः स्वजनः स ते ॥३८॥ ततो दशाननोऽवादीत् प्रिये ! युद्धाद्विभेमि न । स्थितस्त्वद्वचने किंतु शेषैरेवास्मि कारणैः॥३९॥ अथ चंद्रोदरे कालं प्राप्ते कमेनियोगतः । वनितास्यानुरोधाख्या वराकी शरणोभिता ॥४०॥ इतश्चेतश्च विद्याया बलेनाथ विवर्जिता । अंतर्वनीवने भीमे विभ्राम हरिणी यथा ॥४१॥ असूत च सुतं कांतं मणिकांतमहीधरे । मृदुपल्लवपुष्पौघच्छन्ने समशिलातले ॥ ४२ ॥ ततोऽसौ क्रमतो वृद्धिं नीतो विपिनवासया । उद्विग्नचित्तया मात्रा तदाशास्थितजीवया॥४३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org