________________
पद्मपुराणम् ।
२१७
नवमं पर्व ।
मुनेः पिहितमोहस्य शिष्यः सूर्यरजा अभूत् । यथोक्तचरणाधारः शरीरेऽपि गतस्पृहः ॥ १८ ॥ नभोवदमलस्वांतः संगमुक्तः समीरवत् । विजहार स निष्क्रोधो धरण्यां मुक्तिलालसः ॥ १९ ॥ अथ वालेध्रुवा नाम्ना साध्वी पाणिगृहीत्यभूत् । अंगनानां शतस्याप प्राधान्यं या गुणोदयात् २० तया सह महैश्वयं सोऽन्वभूचारुविभ्रमः । श्रीवानरांकमुकुटः पूजिताज्ञः खगाधिपैः ॥ २१ ॥ अत्रांतरे छलान्वेषी मेघप्रभशरीरजः । हतुमिच्छति तां कन्यां लंकेशस्य सहोदरां ॥ २२॥ यदेव तेन सा दृष्टा सवेगात्रमनोहरा । तदाप्रभृत्ययं देहमधत्तानंगपीड़ितं ॥ २३ ॥ आवल्यां प्रवराज्जातां कन्यां नाना तनूदरीं । गतस्ते नयितुं यावद्यमस्य परिमर्दकः॥ २४ ॥ ज्ञात्वाथ निप्रभिस्तावल्लंकां वीतदशाननां । सुखं चंद्रनखां जडू विद्यामायाप्रवीणधीः ॥ २५ ॥ शूरौ किं कुरुतामत्र भानुकणेविभीषणौ । यत्रारिश्छिद्रमासाद्य कन्यां हरति मायया ॥ २६ ॥ पृष्ठतश्च गतं सैन्यं गच्छताभ्यां निवर्तितं । जीवन्नेष रणे शक्तो गृहीतुं नेति चेतसा ॥ २७॥ शुश्राव चागतो वार्ता तादृशीं कैकसीसुतः । जगाम च दुरीक्षत्वं कोपावेशात्सुभीषणात् ॥२८॥ तत आगमनोद्भूत श्रमप्रस्वेदविंदुषु । स्थितेष्वेव पुनर्गतुमुद्यतो मानचोदितः ॥ २९ ॥ सहायं खड़मेकं च जग्राहान्यपराङ्मुखः । अंतरंग स एवैकः संग्रामे वीर्यशालिनां ॥ ३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org