SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । नवमं पर्व। त्रिकालतीर्णसंदेहो भक्त्या युक्तोऽत्युदारया। चतुःसमुद्रपर्यतं जंबद्वीपं क्षणेन यः॥ त्रिः परीत्य किष्कि, नगरं पुनरागमत् ॥ ६॥ ईदृक् पराक्रमाधारः शत्रुपक्षस्य मर्दकः । पौरनेत्रकुमुद्वत्याः शशांक शंकयोज्मितः ॥७॥ किष्किंधनगरे रम्ये चित्रप्रासादतोरणे । विद्वज्जनसमाकीर्णे द्विपवाजिवराकुले ॥ ८॥ नानासंव्यवहाराभिरापणालीभिराकुले । रेमे कल्पे यथैशाने रत्नमालः सुरोत्तमः ॥९॥ अनुक्रमाच्च तस्याभूत् सुग्रीवाभिख्ययानुजः । वीरो धीरो मनोज्ञेन युक्तो रूपेण सन्नयः॥१०॥ विज्ञेयौ वालिसुग्रीवौ किष्किंधकुलभूषणौ । तयोस्तु भूषणीभूता विनयप्रमुखा गुणाः ॥ ११ ॥ सुग्रीवानंतरा कन्या रूपेण प्रतिमा भुवि । श्रीप्रभेति समुद्भूता क्रमशः श्रीरिव स्वयं ॥ १२ ॥ किष्कुप्रमोदनगरे हरिकांताख्ययोषिता । क्रमाद्रक्षरजाः पुत्रौ नलनीलावजीजनत् ॥ १३ ॥ । वितीर्णस्वजनानंदौ रिपुशंकावितारिणौ । उदात्तगुणसंभारौ भूतौ तौ किष्कुमंडनौ ॥ १४ ॥ यौवनश्रियमालोक्य सुतस्य स्थितिपालिनी । विषमिश्रान्नसदृशान्विदित्वा विषयान् बुधः ॥१५॥ वितीर्य वालये राज्यं धर्मपालनकारणं । सुग्रीवाय च सच्चेष्टो युवराजपदं कृती ।। १६ ॥ अवगम्य परं स्वं च जनं साम्येन सज्जनः । चतुर्गति जगज्ज्ञात्वा महादुःखनिपीड़ितं ॥१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy