SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम्। नवमं पर्व। २१५ रिपव उग्रतरा विषयाह्वयाः । अपनयंति सुवस्तुनये स्मृति ॥ बहिरवस्थितशत्रुगणः पुनः । सततमानयते यततं नरं ॥ ५३१ ॥ इति विचित्य न युक्तमुपासितुं । विषयशत्रुगणं पुरुचेतसः ॥ अवटमेति जनस्तमसा ततं । नतु रवेः किरणैरवभासितं ॥ ५३२ ॥ इत्यार्षे रविषेणाचार्यप्रोक्त पद्मचरिते दशग्रीवाभिधानं नामाष्टम पर्व । - नवमं पर्व। अथ सूर्यरजा पुत्रं वालिसंज्ञमजीजनत् । चंद्रमालिन्यभिख्यायां गुणसंपूर्णयोषिति ॥१॥ परोपकारिणं नित्यं दयाशीलयुतं बुधं । दक्षं धीरं श्रिया युक्तं सम्यग्दृष्टिं महाबलं ॥२॥ कलाकलापसंयुक्तं शूरं ज्ञानसमन्वितं । राजनीतिविदं वीरं कृपार्दीकृतचेतसं ॥३॥ विद्यासमूहसंपन्नं कांतिमंतं सुतेजसं । विरलस्तादृशो लोके पुरुषाणां च समुद्भवः ॥ ४ ॥ चंदनानामिवोदारः प्रभावः प्रथितात्मनां । समस्तजिनबिंबानां नमस्कारार्थमुद्यतः ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy