________________
२१४
पद्मपुराणम् ।
अष्टमं पर्व। ततो गोत्रक्रमायातनाथदर्शनलालसा । गृहीताघ फलैः पुष्पैः पत्रैरत्नैश्च कल्पितं ॥ ५१९ ॥ गृहीतभूषणात्यंतचारुवस्त्रादिसंपदः । नृत्यद्भिगणिकासंधैरन्विता नेत्रहारिभिः ॥ ५२०॥ सर्वे पौराः समागत्य प्रयुक्ताशीगिरो मुहुः । आनर्तुः सनमस्कारा यथावृद्धपुरस्सराः ॥ ५२१ ॥ विसर्जिताश्च ते तेन संप्राप्तप्रतिमानताः । यथास्वं निलयं जग्मुस्तद्गुणोक्तिगताननाः ॥५२२॥ अथ तद्भवनं तस्य कौतुकव्याप्तबुद्धिभिः । नारीभिः कृतभूषाभिः पूरितं तद्दिदृक्षुभिः ॥५२३॥ गवाक्षाभिमुखाः काश्चित्त्वरां विश्रस्तवाससः । अन्योन्यवाधविच्छिन्नमुक्ताहारविभूषणाः॥५२४॥ पीनस्तनकृतान्योन्यपीड़नाञ्चलकुंडलाः । रणत्करितुलाकोटिवाचालचरणद्वयाः ॥ ५२५ ।। किं न पश्यसि हा मातः पार्श्वतो भव दुर्भगे । देहि मार्ग व्रजामुष्मादपि नारि न शोभसे ५२६ निगदंत्येवमादीनि विकचांबुरुहाननाः । मुक्त्वा व्यापारजातानि तमैक्षत पुरांगनाः॥ ५२७ ॥ पुरे चूड़ामणौ गेहे स्वस्मिन् सत्कृतभूषणे । सुखं सांतःपुरस्तस्थौ कृतांतस्य विमर्दकः ॥५२८॥ शेषाचापि यथास्थानं स्थिता विद्याधराधिपाः । प्राप्नुवंतो महानंदं सततं त्रिदशा इव ॥५२९॥
विविधरत्नसमागमसंपदः। प्रबलशत्रुसमूलविमर्दनं ॥ . सकलविष्टपगामि यशः सितं । भवति निर्मितनिर्मलकर्मणां ॥ ५३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org