SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ११३ पद्मपुराणम् । अष्टमं पर्व। सिंहशार्दूलमातंगवाजिहंसादि संश्रिताः । नानाविभ्रमसंयुक्ताः प्रमोदविकचेक्षणाः ॥ ५०६ ॥ विभ्राणस्त्रिदशाकारं तेजोव्याप्तविहायसः । आलोकितसमस्ताशाः काननाद्रिसमुद्रगाः॥५०७॥ अदृष्टपारगंभीरं महाग्राहसमाकुलं । तमालवनसंकाशं गिरितुंगोर्मिसंहति ॥५०८ ।। रसातलमिवानेकनागनायकभीषणं । नानारत्नकरवातरंजितोद्देशराजितं ॥ ५०९ ॥ पश्यंतो विस्मयापूर्णाः समुद्रं विविधाद्भुतं । अनुजग्मुरहो हीतिमुहुर्मुखरिताननाः ॥ ५१०॥ अथ भास्वन्महाशाला गंभीरपरिखावृतां । कुंदशुभैर्महानीलनीलैर्जालककुक्षिषु ॥ ५११ ॥ पद्मरागारुणैरुद्धैः क्वचित्पुष्पमणिप्रभैः । गरुत्ममणिसंकाशैरन्यत्र निचितां गृहैः ॥ ५१२ ॥ शोभमानां निसर्गेण पुनश्च कृतभूषणां । रक्षोनाथागमे भक्तैः पौरैरद्भुतसम्मदैः॥ ५१३ ॥ अत्यंतमधिकां कुर्वन् शोभा गिरिनिभैर्गजैः । महाप्रासादसंकाशैः स्यंदनैःरत्नरंजितैः ॥५१४ ॥ अश्ववृंदैः क्वणद्धेमचक्रकैश्चलचामरैः । विमानैः शिखरारूहदुराकाशैर्बहुप्रभैः ॥ ५१५ ॥ छत्रैः शशांकसंकाशैर्ध्वजैरुद्धृतकोटिभिः । वंदिवृंदारकौघेण कृतमंगलनिस्वनः ॥ ५१६ ॥ वीणावेणुविमिश्रेण शंखनादानुगामिना । तूर्यनादेन निश्शेषं दिङ्नभोविदितात्मना ॥ ५१७ ॥ प्रविवेश निजामीशो लंका शंकाविवर्जितः । त्रिदशेश इवोदारो दशास्यः शासिता हितः॥५१८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy