________________
पद्मपुराणम्।
अष्टमं पर्व । कृतोपलंभं स्वप्नेऽपि ज्ञायते वस्तुलेशतः । निरन्वयं तु तस्येदं विस्मृतं पूर्वचोदितं ॥ ४९३ ॥ प्राप्य वा सुरसंगीतपुरस्य पतितां यमः । विसस्मार परिप्राप्तां परिभूतिं दशाननात् ॥ ४९४ ॥ मेने च मम सर्वश्रीदुहिता रूपशालिनी । सा च गीर्वाणनाथस्य प्राणेभ्योऽपि गरीयसी ॥४९५॥ अत्यंतमंतरंगोयं संबंधो महता सह । अतो जन्म कृतार्थ मे प्राप्य शक्रप्रतीक्ष्यतां ॥ ४९६ ॥ ततो महोदयोत्साहः श्रीमानुद्वासितांतकः । नगरं सूर्यरजसे ददौ किष्किधसंज्ञकं ॥ ४९७ ॥ तथाःरजसे किष्कुपुरं परमसंपदं । प्राप्य गोत्रक्रमायाते नगरे तौ सुखं स्थितौ ॥ ४९८ ॥ ते शक्रनगराभिख्ये पुरे कांचनसद्मनि । उचितस्वामिसंयुक्ते जग्मतुः परमां श्रियं ॥ ४९९ ॥ सौमालिरपि विभ्राणः श्रियं कीर्ति च भूयसीं । प्रत्यवस्थित सामंतैः प्रणमाद्भिः समुत्तमः ॥५०॥ पूर्यमाणः सदासेव्यैर्विभवैः प्रतिवासरं । बंधः कुमुदखंडानां सितपक्षे करैरिव ॥ ५०१॥ रत्नदामाकुलं तुंगं शृंगपंक्तिविराजितं । आरुह्य पुष्पकं चारुविमानं कामगत्वरं ॥ ५०२ ॥ युक्तः परमधैर्येण प्राप्तपुण्यफलोदयः । त्रिकूटशिखरं भूत्या परया प्रस्थितः कृती ॥ ५०३ ।। ततो रक्षोगणास्तस्य प्रमोदं परमं श्रिताः चित्रालंकारसंपन्ना वरीयोवस्त्रधारिणः ।। ५०४ ॥ जय नंद चिरं जीव वर्धस्वोदेहि संततं । इति मंगलवाक्यानि प्रयुंजाना महारवाः ॥ ५९५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org