________________
पद्मपुराणम्।
२११
अष्टमं पर्व। कैकसीनंदनेनाथ शरेण कृतताडनः । भूमौ ग्रह इवापुण्यः पपात यमसारथिः॥ ४८०॥ ताडितस्तीक्ष्णवाणेन कृतांतोऽप्यरथीकृतः । उत्पपात रवेर्मार्गमंतर्हिततनुः क्षणात् ॥ ४८१ ॥ ततः सांतःपुरः पुत्रसहितोऽमात्यसंयुतः । कंपमानतनुर्भीत्या यातोऽसौ रथनूपुरं ॥ ४८२ ।। नमस्कृत्य च संभ्रांत इदमेवमभाषत । शृणु विज्ञापनं देव कृतं मे यमलीलया ॥ ४८३॥ प्रसीद व्रज वा कोपं हर वा जीवनं विभो । कुरु वा वांछितं यत्ते यमतां न करोम्यहं ॥४८४॥ युद्धे वैश्रवणो येन निर्जितः पुरुतेजसा । अहमप्यमुना नीतो भंग कृतरणश्चिरं ॥४८५ ॥ सृष्टं वीरसेनेव वपुस्तस्य महात्मनः । दुरीक्षो व्योममध्यस्थसवितेव निदाघजः ॥ ४८६ ॥ इति श्रुत्वा सुराधीशः संग्रामाय कृतोद्यतिः । निरुद्धो मंत्रिवर्गेण नययाथात्म्यवेदिना ॥ ४८७॥ जगाद च स्मितं श्रुत्वा मातुलं क्व स यास्यति । भयं मुंच सुविश्रब्धो भवास्मिन्नासने सुखं ॥४८८॥ जामातुरथ वाक्येन परित्यज्य रिपोर्भयं । पुरं सुरवरोद्गीतमध्युवास यमः सुखी ॥ ४८९ ॥ विधायांतकसन्मानं सुरेशोऽतःपुरं ययौ । कामभोगसमुद्रेऽसौ तत्र मनो महामदः॥ ४९० ॥ दशास्यचरितं तस्मै यत्प्रेतपतिनोदितं । वनवासो धनपतेभगिनो यश्च संयुगे ॥ ४९१ ॥ सर्वमैश्वर्यमत्तस्य विस्मृतं तस्य तत्क्षणात् । अभ्यग्रपठितं शास्त्रं यथाभ्यसनवर्जितं ॥ ४९२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org