________________
पद्मपुराणम् ।
२१०
अष्टमं पर्व । द्विपैगिरिनिभैीमैर्दानधारांधकारिभिः । तुरंगैश्च चलच्चारुचामरप्राप्तभूषणैः ॥ ४६७ ॥ रथैरादित्यसंकाशैर्ध्वजपंक्तिविभूषितैः । पिनद्धकवचैः शस्त्रैर्भटैवीरैरधिष्ठितैः ॥ ४६८ ॥ ततस्तं स्यंदनारूढ़ो हंसनैः सुभट क्षणात् । भंग विभीषणो निन्ये वाणैरणविशारदः ॥ ४६९ ॥ यमस्य किंकरा दीना कुर्वाणा खमायतं । बाणैः समाहताश्चकुः क्षिप्रं क्वापि पलायनं ॥ ४७० ॥ मोचितान् नारकान् श्रुत्वा साटोपं चावसादितं । यमो यम इव क्रूरो महाशस्त्राटवीं गतः ४७१ रथोत्साहःसमारुह्य चापं कोपं च धारयन् । उच्छ्रितेन प्रतापेन ध्वजेन च महाबलः॥ ४७२ ॥ आकुलासितसभिभृकुटीकुटिलालकः । चक्षुषात्यंतरक्तेन दहन्निव जगद्वनं ॥ ४७३ ॥ प्रतिबिम्बैरिवात्मीयैः सामंतैः कृतवेष्टनः । योढुं वेगानिचक्राम छादयन् तेजसा नभः ॥ ४७४॥ ततस्तं निर्गतं दृष्ट्वा विनिवार्यविभीषणं । दशाननो रणं कर्तुमुत्थितः कोपमुद्वहन् ॥ ४७५ ॥ साटोपव्यसनेनातिदीपितोऽथ यमः समं । दशास्येन रणं कर्तुमारेभे भीषणाननः ॥ ४७६ ॥ दृष्दैवं तं ततो भीता जाता राक्षसवाहिनी । दशाननसमीपं सा डुढौके मंदचेष्टिता ॥ ४७७ ॥ रथारूढस्ततस्तस्य दशास्योऽभिमुखं ययौ । विमुंचन् शरसंघातं मुंचतः शरसंहतीः ॥ ४७८ ॥ ततस्तयोः शरैश्छन्नं भीमनिश्चलकारिभिः । नमो धनैरिवाशेषं धनबद्धकदंबकैः ॥ ४७९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org