________________
पद्मपुराणम् ।
२०९
अष्टमं पर्व।
यमेन स्वयमात्मानं सत्यमेवावगच्छता । कारितं यातनास्थानं वैतरण्यादिपूर्वकं ॥ ४५४ ॥ ततो ये निर्जितास्तेन संयतींद्रेण वा जिताः । प्रेषिता दुःखमरणं प्राप्यते तत्र ते नराः ॥४५५॥ वृत्तांतं तमहं दृष्ट्वा कथमप्याकुलाकुलः । संभूतो दयितो भृत्यः क्रमादृक्षरजःकुले ॥ ४५६ ॥ नाम्ना शाखावलीपुत्रः सुश्रोणीरणदक्षयोः । कृत्वा पलायनं प्राप्तो भवतस्त्रातुरंतिकं ॥ ४५७ ॥ इति स्वपक्षदौस्थित्यमवगम्य मयोदितं । देवः प्रमाणमत्रार्थे कृत्योऽहं त्वन्निवेदनात् ॥ ४५८ ॥ व्रणभंगं ततस्तस्य कर्तुमादिश्य सादरं । उच्चचाल महाक्रोधः स्मितं कृत्वा दशाननः ॥ ४५९॥ जगाद चोधतान् क्लेशमहाणेवमुपागतान् । वैतरण्यादिनिक्षिप्तान् वारयाम्यसुधारिणः ॥४६०॥ अग्रस्कंधेन चोदाराः प्रहस्तप्रमुखा नृपाः । प्रवृत्ताः शस्त्रतेजोभिः कुर्वाणा ज्वलितं नमः॥४६१॥ विचित्रवाहनारूढाश्छत्रध्वजसमाकुलाः । तूर्यनादसमुद्भूतमहोत्साहा महौजसः॥ ४६२ ॥ तथा गगनयात्राणां क्षितिं प्राप्ताः पुरांतिकां । शोभया गृहपंक्तीनां परमं विस्मयं गताः॥४६३॥ दिशि किष्कुपुरस्याथ दक्षिणास्यां दशाननः । ददर्श नरकावासगांक्षिप्ता नृसंहतीः ॥ ४६४ ॥ कृत्वा नरकपालानां ध्वंसनं दुःखसागरात् । उत्तारितास्ततः सर्वे बंधुनेवामुना जनाः॥ ४६५ ॥ श्रुत्वा परबलं प्राप्तं साटोपो नाम वीर्यवान् । निर्ययौ सर्वसैन्येन प्रक्षुब्ध इव सागरः॥ ४६६ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org