________________
२२७
पद्मपुराणम् ।
नवमं पर्व। प्रत्यहं भक्तिसंयुक्तैः कृनपूजं सुरासुरैः । मा विनाशि चलत्यस्मिन्पर्वते भिन्नपर्वणि ॥ १४८ ॥ ध्यात्वेति चरणांगुष्ठपीडितं गिरिमस्तकं । चकार शोभनध्यानाददुरीकृतचेतनः ॥ १४९ ॥ भग्नमौलिशिरोगादनिविष्टधरणीधरः । निमजद्भूतलन्यस्तजानुनिर्भुग्नजंघकः॥ १५० ॥ सद्यः प्रगलितस्वेदधाराधौतरसातलः । बभूव संकुचद्गात्रः कूर्माकारो दशाननः ॥ १५१ ॥ रवं च सर्वयत्नेन कृत्वा रावितवान् जगत् । यतस्ततो गतः पश्चाद्रावणाख्यां समस्तगां॥१५२।। श्रुत्वा तं दीनमारावं स्वामिनः पूर्वमश्रुतं । विद्याधरवधूलोको विललाप समाकुलः ॥ १५३ ॥ मूढाः सन्नद्धमारब्धाः संभ्रांताः सचिवा वृथा । पुनः पुनःस्खलद्वाचो गृहीतगलदायुधाः॥१५४॥ मुनिवीर्यप्रभावेण सुदुंदुभयोऽनदन् । पपात सुमनोवृष्टिः खमाच्छाद्य सषट्पदाः ॥ १५५ ॥ नन्तुर्गगने क्रीड़ाशीला देवकुमारकाः । गीतध्वनिः सुरस्त्रीणां वंशानुगतमुद्ययौ । १५६ ॥ ततो मंदोदरी दीना ययाचेति मुनीश्वरं । प्रणम्य भर्तृभिक्षं मे प्रयच्छामृतविक्रम ॥ १५७ ॥ * ततोऽनुकंपयांगुष्ठं महामुनिरशश्लथन् । रावणोऽपि विमुच्याद्रिं क्लेशकांतारतो निरैत् ॥ १५८ ॥
गत्वा च प्रणतिं कृत्वा क्षमयित्वा पुनः पुनः । योगेशं स्तोतुमारब्धः परिज्ञाततपोबलः॥१५९॥ जिनेंद्रचरणौ मुक्त्वा करोमि न नमस्कृतिं । अन्यस्येति त्वयोक्तं यत्सामर्थ्यस्यास्य तत्फलं१६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org