________________
पद्मपुराणम् ।
२०७
अष्टमं पर्व।
करेण वेष्टितुं यावच्चक्रे वांछां मतंगजः । तावद्दष्ट्रांतरेणासौ निस्सृतो लाघवान्वितः ॥ ४२८ ॥ अंगेषु च चतुर्वस्य स्पृशन् दंततले मुहुः । भ्रांतिविद्युच्चलचके प्रेखणं रदनाग्रयोः ॥ ४२९ ॥ अथास्य पृष्ठमारुह्य सविलासं दशाननः । विनीतश्च स्थितो दंती सच्छिष्य इव तत्क्षणात्॥४३०॥ ततः सकुसुमा मुक्ताः साधुवादा मुहुः सुरैः । सशब्दा च महामोदं प्राप्ता खेचरवाहिनी॥४१॥ त्रिलोकमंडनाभिख्यां प्रापायं दशवक्त्रतः । त्रैलोक्यं मंडितं तेन यतो मेने स मोदवान् ॥४३२॥ महोत्सवः कृतस्तस्य लाभे परमदंतिनः । नृत्यद्भिः पर्वते रम्ये खेचरैः पुष्पसंकुले ॥ ४३३ ॥ तथैषां जाग्रतामेष मर्यादामात्रकारणं । कृतः प्रभाततूर्येण नादो गहरपेशलः ॥ ४३४ ॥ दिवसेन ततो बिम्बं रवेः कलशमंगलं । उपनीतं दशास्याय सेवाकौशलवेदिना ॥ ४३५ ॥ ततः सुखासनासीने विहितस्वांगकर्मणि । स्थिते दशमुखे दंतिकथया खेचरावृते ॥ ४३६ ॥ सहसा वियतः प्राप्तः पुरुषः पुरुवेपथुः । स्वेदविंदुसमाकीर्णः संभ्रांतः खेदमुद्वहन् । ४३७॥ संप्रहारव्रणः साश्रुदेशेयज्जजेरां तनुं । व्यज्ञापयच्च कृच्छ्रेण ललाटे धारयन् करौ ॥ ४३८॥ दशमेहि दिनादस्माच्चित्ते कृत्वा भवरलं । अलंकारपुरावासानिष्क्रम्योत्साहतोऽधिकात्॥४१९॥ निजगोत्रक्रमायातं नगर किंकुसंज्ञकं । गृहीतुं भ्रातरौ यातौ सूर्यक्षरजसावुभौ ॥ ४४०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org