________________
पद्मपुराणम् ।
२०६
अष्टमं पर्व ।
एतावत्तु ब्रवीम्येतौ भुजौ केयूरपीडितौ । छिनधि न क्षणादेनं यदि गृह्णाम्यनेकपं ॥ ४१५ ।। ततः कामगमारुह्य विमानं पुष्पकाभिधं । गत्वा पश्यति तं नागं सल्लक्षणसमन्वितं ॥ ४१६ ॥ स्त्रिग्वेंद्रनीलसंकाशं राजीवप्रभतालुकं । दीर्घवृत्तौ सुधाफेनवलक्षौ विभ्रतं रौ ॥ ४१७ ॥ हस्तानां सप्तकं तुंगं दशकं परिणाहतः । आयामतश्च नवकं मधुपिंगललोचनं ॥ ४९८ ॥ निमग्नवंश मांगतुंगमायातबालधिं । द्राघिष्टकरमत्यंत स्निग्धपिंगनखांकुरं ॥ ४१९ ॥ वृत्तं पीनमहाकुंभं सुप्रतिष्ठांघ्रिमूर्जितं । अंतर्मधुरधीरोरुगर्जितं विनयस्थितं ॥ ४२० ॥ गलगंडस्थलामोदसमाकृष्टालिवेणिकं । कुर्वतं दुंदुभिध्वानं कर्णतालांतताडनैः ॥ ४२१ ॥ भग्नावकाशमाकाशं कुर्वाणमिव पार्थवां । लीलां विदधतं चित्तचक्षुश्चोरणकारिणीं ॥ ४२२ ॥
1
च तं परां प्रीतिं प्राप रत्नश्रवः सुतः । कृतार्थमिव चात्मानं मेने हृष्टतनूरुहः ॥ ४२३ ॥ ततो विमानमुज्झित्वा बढ्दा परिकरं हं । शंखं तस्य पुरो दध्मौ शब्दपूरितविष्टपं ॥ ४२४ ॥ ततः शंखस्वनोद्भूतचित्तक्षोभः स गर्जितः । करी दशमुखोद्देशं चलितो बलगर्वितः ॥ ४२५ ।। वेगादभ्यायतस्यास्य पिंडीकृत्य सितांशुकं । उत्तरीयं च चिक्षेप क्षिप्रं विभ्रमदक्षिणः ।। ४२६ ।। दंती जिघ्रति तं यावत्तावदुत्पत्य गंडयोः । अस्पृशक्षमर्दस्तं भृंगौघध्वनिचंडयोः || ४२७ ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org