________________
२०५
पद्मपुराणम् ।
अष्टसं पर्व। अथ विज्ञाय जयिनं दशवक्त्रं दिवाकरः । नेत्रयोर्गोचरीभावं भयादिव समत्यजत् ॥४०२॥ संध्यारागेण चच्छन्नं समस्तं भुवनांतरं । संजातेनानुरागेण कैकसे यादिवोरुणा ॥ ४०३ ॥ । ध्वस्तसंध्येन च व्याप्तं ध्वांतेन क्रमतो नमः । दशास्यस्येव कालेन कर्तुमेतेन सैवनं ॥ ४०४ ॥ सम्मेदभूधरस्यांते ततः संस्थलिभूभूतः । चकार शिविरं कक्षाववतीर्य नभस्तलात् ॥४०५॥ घनौघादिव निर्याताः प्रावृषेण्यादथ धनिः । येन तत्सकलं सैन्यं कृतं साध्वसपूरितं ॥४०६ ॥ भंगमालानवृक्षाणां चक्रुस्तंबेरमोत्तमाः । हेषितं सप्तयश्चोचैरुत्कर्णाः स्फुरत्त्वचः ।। ४०७॥ किं किमेतदिति क्षिप्रं जगाद च दशाननः । अपराधमिषेणायं मतुं कोऽद्य समुद्यतः ॥४०८।। नूनं वैश्रवणः प्राप्तः सोमो वा रिपुचोदितः । विश्रब्धं वा स्थितं मत्वा ममान्य शत्रुगोचरः ४०९ तदादिष्टः प्रहस्तोऽथ तं देशं समुपागतः । अपश्यत्पर्वताकारं लीलायुक्तमनेकपं ॥ ४१०॥ निवेदितं ततस्तेन दशास्याय सविस्मयं । महाराशिमिवान्दानी देव ! पश्य मतंगजं ॥४११ ।। ईक्षितः पूर्वमप्येष दंतिद्वंदारको मया । इंद्रेणाप्युज्झितो धर्तुमसमर्थेन वारणः ॥ ४१२॥ मन्ये पुरंदरस्यापि दुर्ग्रहोऽयं सुदुस्सहः । गजः किमुत तुंगोजाः शेषाणां प्राणधारिणां ॥४१३॥ ततः प्रहस्य विश्रब्धं जगाद धनदार्दनः । आत्मनो युज्यते कर्तुं न प्रहस्त ! प्रशंसनं ॥ ४१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org