________________
पद्मपुराणम् ।
२०४
अष्टमं पर्व ।
तथापि परया युक्तश्चक्रलांछनया श्रिया । रहितं मदनावल्याः स्वं स मेने तृणोपमं ॥ ३८९ ॥ ततः संवाहयन् प्राप्तो बलं द्वादशयोजनं । स तापसवनोद्देशं नमयन् सर्वविद्विषः ॥ ३९० ॥ ततः स तापसीतैर्विज्ञाय फलपाणिभिः । दत्तार्यः पूजितो वाक्यैराशीर्दानपुरस्सरैः ॥ ३९१ ॥ शतमन्योश्च पुत्रेण जनमेजयरूदिना । तुष्टया नागवत्या च स कन्यास्मै समर्पिता ॥ ३९२ ॥ विधिना च ततो वृत्तं तयोर्वैवाहमंगलं । प्राप्य चैतां पुनर्जन्म प्राप्तं मेने नृपोत्तमः ॥ ३९३ ॥ ततः कापिल्यमागत्य युक्तश्चक्रधरश्रिया । द्वात्रिंशता नरेंद्राणं सहस्राणां समन्वितः ॥ ३९४ ॥ शिरसा मुकुटन्यस्तमणिप्रकरभासिना । ननाम चरणौ मातुर्विनीतो रचितांजलिः ॥ ३९५॥ ततस्तं तद्विधं दृष्ट्वा पुत्रं वा दशानन । संभूता न स्वगात्रेषु तोषाश्रुव्याप्तलोचना ॥ ३९६ ॥ ततो भ्रामयता तेन सूर्यवर्णान् महारथान् । कांपिल्यनगरे मातुः कृतं सफलमीप्सितं ॥ ३९७ ॥ श्रमणश्रावकाणां च जातः परमसंमदः । बहवश्च परिप्राप्ता शासनं जिनदेशितं ।। ३९८ ॥ तेनामी कारिता भांति नानावर्णजिनालयाः । भूपर्वतनदीसंगपुरग्रामादिषूनताः ॥ ३९९ ।। कृत्वा चिरमसौ राज्यं प्रवृज्य सुमहामनाः । तपः कृत्वा परं प्राप्तस्त्रिलोकशिखरं विभुः॥४००॥ हरिषेणस्य चरितं श्रुत्वा विस्मयमागतः । कृत्वा जिननमस्कारं दशास्यः प्रस्थितः पुनः॥४०१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org