________________
पद्मपुराणम् ।
२०३
अष्टमं पर्व |
तिष्ठ त्वमिह जामातः सख्यं कर्तुं व्रजाम्यहं । त्वन्निमित्तं रिपुक्रुद्धौ दुर्वृत्तौ दुःखचारणौ ॥ ३७६॥ स्मित्वा ततो जगादासौ परकार्येसु यो रतः । कार्ये तस्य कथं स्वामिन्नौदासीन्यं भविष्यति३७७ कुरु पूज्यप्रसादं मे यच्छ युद्धाय शासनं । भृत्यं मत्सदृशं प्राप्य स्वयं किमिति युध्यसे ॥ ३७८ ॥ ततोऽमंगलभीतेन वांछताप्यनिवारितः । श्वसुरेण कृतासंगमवैः पवनगामिभिः || ३७९ ॥ अस्त्रैर्नानाविधैः पूर्ण सूरिसारथिनेतृकं । वेष्टितं योधचक्रेण हरिषेणो रथं ययौ ।। ३८० ॥ तस्य चानुपदं जग्मुरवैर्नागैश्व खेचराः । कृत्वा कलकलं तुंगं शत्रुमानस दुस्सहं ।। ३८१ ॥ ततो महति संजाते संयुगे शूरधारिते । भनं शक्रधनुः सैन्यं दृष्टा चाप्रेय उत्थितः ॥ ३८२ ॥ ततो यया दिशा तस्य प्रावर्तत रथोत्तमः । तस्य नाश्वो न मातंगो न मनुष्यो रथो न च ॥ ३८३ ॥ शरैस्तेन समं युक्तैररातिबलमाहतं । जगाम काप्यनालोक्य पृष्ठ स्खलतिजूतिकं ॥ ३८४ ॥ पृथुवेपथवः केचिदिदमूचुर्भयार्दिताः । कृतं गंगाधरेणेदं भूधरेण च दुर्मतं ।। ३८५ ।। rasu भाति सूर्यवत्पुरुषोत्तमः । करानिव शरान्मुचन् सर्वाशासु समं बहून् || ३८६ ॥ ध्वंस्यमानं ततः सैन्यं दृष्ट्वा तेन महात्मना । गतौ क्वापि भयग्रस्तौ गंगाधरमहीधरौ ।। ३८७ ।। ततो जातेषु रत्नेषु तत्क्षणं सुकृतोदयात् । दशमो हरिषेणोऽभूच्चक्रवर्ती महोदयः ॥ ३८८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org