________________
पद्मपुराणम् ।
૨૦૨
अष्टम पर्व।
गुणरूपमदास्ता जयचंद्रा तयोः सुता । पुरुषद्वेषिणी जाता पितृवाक्यापकर्षिणी ॥ ३६३ ॥ यो यस्तस्या मयाऽऽलिख्य पट्टके दर्शितः पुरा । सकले भरतक्षेत्रे नासौ तस्या रुचौ स्थितः३६४ ततो भवान् मया तस्या दर्शितः पट्टकस्थितः । गाढ़ाकल्पकशिल्पेन शल्यिता चेदमब्रवीत् ३६५ कामभोगोपमानेन समं यदि न युज्यते । मृत्युं ततः प्रपत्स्येऽहं नत्वन्यमधर्म नरं ॥ ३६६ ॥ यदि तं नानयेच्छीघ्रं त्वन्मानसमलिम्लुचं । ज्वालाजटालमनलं प्रविशामि ततः सखि ॥३६७॥ प्रतिज्ञा च पुरस्तस्या मयेयं दुष्करा कृता । शोकमत्युत्कटं दृष्ट्वा तद्गुणाकृष्टचित्तया ॥ ३६८ ॥ प्रतिज्ञायेति पुण्येन प्राप्तति महता मया । त्वत्प्रसादात्करिष्यामि प्रतिज्ञां फलसंगतां ॥३६९ ॥ सूर्योदयपुरं चैषा प्राप्ता स च निवेदितः । आनीतः शक्रचापाय कन्यायै च मनोहरः ॥ ३७० ॥ ततः पाणिग्रहश्चके तयारद्भुतरूपयोः । विस्मयापनचेतोभिः स्वजनैरभिनंदितः ॥ ३७१॥ संपादितप्रतिज्ञा च प्राप्ता वेगवतो परं । सन्मानं राजकन्याभ्यां प्रमदं च तथा यशः ॥ ३७२ ॥ त्यक्त्वा नौ धरणीवासो गृहीतः पुरुषोऽनया । इति संचित्य कुपितौ तस्या मैथुनिकोचितौ॥३७३॥ अवांछतां रणं कर्तुं महासाधनसंयुतौ । दूषितावपमानेन गंगाधरमहीधरौ ॥ ३७४ ॥ ततः शक्रधनुः साकं सुचापाख्येन सूनुना । हरिषेणं जगादैवं करुणासक्तचेतनः ॥ ३७५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org