________________
पापुसणम् ।
अटमं पर्व। सकृदेषा कथंचिच्चेत् त्रियामा क्षयमेष्यति । गमिष्यामि ततो बालामेतां द्रागनुचिंतनं ॥३५०॥ विचिंतयत्येवमेतस्मिन् शयनीयेतिशोभने । चिरेण निद्रया लब्धं पदमत्यंतकृच्छ्रतः ॥ ३५१ ॥ स्वमेऽपि च स तामेव ददर्शाभोजलोचनां । प्रायो हि मानसस्यास्य सैव गोचरतामगात् ॥३५२॥ अथ वेगवती नाम्ना कलागुणविशारदा । खेचराधिपकन्याया: सखी तमहरत्क्षणात् ॥ ३५३ ॥ ततो निद्राक्षये दृष्ट्वा ड्रियमाणं स्वमंबरे । पापे हरसि मां कस्मादितिव्याहृत्य कोपतः ॥३५४॥ दृष्टनिश्शेषताराक्षः संदष्टरदनच्छदः । मुष्टिं बबंध तो हंतुं वज्रमुद्गरसन्निभां ॥ ३५५ ॥ ततस्तं कुपितं दृष्ट्वा पुरुषं चारुलक्षणं । विद्याबलसमृद्धापि शंकिता सेत्यभाषत ॥ ३५६ ॥ आरूढस्तस्माखायां छिन्ने तस्या यथा नरः । मूलं तथा करोषि त्वं ममायुष्मन् विहंसनं ॥३५७॥ यदर्थ नीयते तात त्वं मया तद्तो भवान् । सत्यं ज्ञास्यसि नह्यस्य वपुषस्तव दुःखिता ॥३५८॥ अचिंतयच्च भद्रेयं वनिता चारुभाषिणी । आकृतिः कथयत्यस्याः परपीड़ानिवृत्ततां ॥ ३५९ ॥ यथेदं स्पंदुते चक्षुर्दक्षिणं मम सांप्रलं । तथा च कल्पयाम्येषा प्रियसंगमकारिणी ॥ ३६० ॥ पुनश्चानेन सौ पृष्टा भद्रे ! वेदय कारणं । ललामसंकथासंगात् कर्णौ तावत्प्रतर्पय ॥ ३६१ ॥ जमाद चेति राजास्तेि पुरे सूर्योदये वरे । नाम्ना शक्रधनुस्तस्य भार्या धीरिति कीर्तितास३६२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org