________________
२००
पध्यपुरीणम् ।
अहम पर्व नूनं मृत्युसमीपोऽसि यन्मदं वहसे गजे । गृहेण वा गृहीतोऽसि बजासादाशुगोचरात् ॥ ३३७॥ विहस्य स ततः कोपाल्लीलया कृतनतनः । सांतयित्वांगनाः कृत्वा पृष्टतो गजमभ्यगात्॥३३८॥ विद्युद्विलसितेनासौ करुणेन ततो नमः । उत्पत्य दशने पादं कृत्वाहक्षन्मवंगजं ॥ ३३९ ॥ ततः क्रीडितुमारेभे गजेन सह लीलया । दृष्टनष्टसमस्तेषु गात्रेष्वस्य पुनर्भुचि ॥ ३४०॥ पारंपर्यतः श्रुत्वा कृत्वा कलकलं महत् । विनिष्क्रांतं पुरं सर्व दृष्टुमेतन्महाद्भुतं ॥ ३४१ ॥ वातायनगताश्चेक्षां चक्रिरे तं महांगनाः। चक्रुर्मनोरथान् कन्यास्तत्समागमसंगतान् ॥ ३४२ ॥ आस्फालनैर्महाशब्दैर्मुहुर्गात्रविधूननैः । कृतोऽसौ निर्मदस्तेन क्षणमात्रेण बारणः ॥ ३४३ ॥ हर्म्यपृष्ठगतो दृष्ट्वा तदाश्चयं पुराधिपः । सिंधुनामाऽखिलं तस्मै प्रजिघाय परिच्छदं ॥ ३४४ ॥ तथा कुथाकृतच्छाये नानावर्णकभासुरे । आरूढ़ः स गजे तसिन् विभूत्या परयान्वितः॥३४५॥ मनांसि पौरनारीणामुच्चिन्वन् रूपपाणिना । प्रविवेश पुरं स्वेदबिंदुमुक्ताफलान्वितः ॥ ३४६ ॥ नराधिपस्य कन्यानां परिणीतं तनः शतं । तेन सर्वत्र चासक्ता हरिषेणमयी कथा ॥ ३४७ ॥ महांतमपि संप्राप्तः सन्मानं स नरेश्वरात् । स्त्रीरत्नेन विना मेने तां वर्षमिव शर्वरी ॥ ३४८ ॥ अचिंतयच्च नूनं सा मया विरहिताधुना । मृगीवाकुलता प्राप्ता परमां विषमे वने ॥ ३४९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org