________________
१९९
पद्मपुराणम् ।
अष्टम पर्व। अथांजनगिरिच्छायः प्रगलद्दाननिर्भरः । आजगाम गजस्तासां स्त्रीणामभिमुखो बलात् ।।३२४॥ न शक्नोमि गजं धतुं कुरुताशु पलायनं । यदि शक्नुवतो नार्य इत्यारोहेण चोदितं ॥ ३२५ ॥ नरवृंदारकासक्तचेतनास्ता न तद्वचः । चक्रुः श्रवणयोर्नापि समर्थाः प्रपलायितुं ॥ ३२६ ॥ . मुहुः प्रचंडमारोहे ततो रटति चेतितं । वनिताभिर्बभूवुश्च भयव्याकुलचेतसः ॥ ३२७ ।। ततस्ताः शरणं जग्मुस्तं नरं कृतकंपनाः । भयेनोपकृतं तासां तत्समागमचेतसां ॥ ३२८ ॥ ततः स करुणायुक्तो हरिषेणो व्यचिंतयत् । संभ्रांतोत्तमरामांगसंगमात्पुलकांचितः ॥ ३२९ ॥ इतः सिंधुगंभीरोऽयमितः शालो गजोऽन्यतः । संकटे तु परिप्राप्ते करोमि प्राणिपालनं ॥३३०॥ वृषः खनति वल्मीकं श्रृंगाभ्यां नतु भूधरं । पुरुषः कदलीं छिते सायकेन शिलां तु न ॥३३१॥ मृदुं पराभवत्येष लोकः प्रखलचेष्टितः । उद्वत्याप्यसुखं कर्तुं नाभिवांछति कर्कशे ॥ ३३२ ॥ क्लीवास्ते तापसा येन क्षमा तेषां मया कृता । सारंगसमवृत्तीनां निवासेन कृतागसां ॥३३३॥ वसतां गुरुगेहेषु क्षमात्यंतगरीयसी । कृता सा हि हितात्यंतं संजाता परमोदया ॥ ३३४ ॥ उक्तमेवं ततस्तेन तारनिष्ठुरया गिरा । भो भो हस्तिपकान्येन नय देशेन वारणं ॥ ३३५ ॥ ततो हस्तिपकेनोक्तमहो ते धृष्टता परा । यन्मनुष्यं गजं वेत्सि स्वं च वेत्सि मतंगजं ॥३३६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org