________________
पद्मपुराणम् ।
अष्टमं पर्व। दावाग्निसदृशास्तेन पद्मखंडा निरीक्षिताः । वज्रसूचीसमास्तस्य बभूवुश्चंद्ररश्मयः ॥ ३११ ॥ विशालपुलिनाश्चास्य स्वच्छतोयाः समुद्रगाः । मनो वहति चाकृष्य कन्याजघनसाम्यतः॥३१२॥ मनोऽस्य केतकीसूचीकुंतयष्टिरिवभिनत् । चक्रवच्च कदंबानां पुष्पं सुरभि चिच्छिदे ॥३१३॥ कुटजानां विधूतानि कुसुमानि नभस्वता । ममाणि चिच्छिदुस्तस्य मन्मथस्येव सायकाः॥३१४॥ यदि चाचिंतयल्लप्म्ये स्त्रीरत्नं यदि नाम तत् । ततः शोकमहं मातुरपनेष्याम्यसंशयं ॥ ३१५ ॥ प्रातमेव ततो मन्ये पतित्वं भरतेऽखिले । आकृतिनहि सा तस्याः स्तोकभोगविधायिनी॥३१६॥ नदीकूलेष्वरण्येसु ग्रामेषु नगरेषु च । पर्वतेषु च चैत्यानि कारयिष्याम्यहं ततः ॥ ३१७॥ मातुः शोकेन संतप्तो मृतः स्यां यदि तामहं । न पश्येयं धृतो जीवो मम तत्संगमाशया॥३१८॥ चिंतयनिति चान्यच्च बहुदुःखितमानसः । विस्मृतो जननीशोकं स बभ्राम गृही यथा ॥३१९॥ पर्यटश्च बहून् देशान् प्राप्तः सिंधुनदं पुरं । तदवस्थोऽपि वीर्येण तेजसा चारुणान्वितः ॥३२०॥ बहिः क्रीडा विनिष्क्रांतास्तत्र तं वीक्ष्य योषितः । स्तंभिता इव निश्चेष्टाःस्पष्टाक्षा शतशोऽभवन् पुंडरीकेक्षणं मेरुकटकोदारवक्षसं । दिमतंगजकुंभांसमिभस्तंभसमोरुकं ॥ ३२२ ॥ उन्मत्तत्वमुपेतानामनन्यगतचेतसां । पश्यंतीनां न तं तृप्तिर्बभूव पुरयोषितां ॥ ३२३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org