________________
पद्मपुराणम् 1
१९७
अष्टमं पर्व |
रम्येष्वपि प्रदेशेषु वने तत्रास्य नो धृतिः । बभूव कुर्वतो नित्यं भ्रमणं मृदुचेतसा ॥ २९८ ॥ वनदेव इति भ्रांतिं कुर्वाणोऽसावनारतं । दुरिविस्तारिताक्षीभिर्मृगीभिः कृतवीक्षणः ॥ २९९ ॥ सइयायां गिरः शिष्य शतमन्युवनाश्रमं । विरोधं दूरमुज्झित्वा वनप्राणिभिराश्रितं ॥ ३०० ॥ चंपायामथ रुद्धायां कालकल्पाख्यभूभृता । रुद्रेण साधनं भूरि विभ्रता पुरुतेजसा ।। ३०१ || यावत्तेन समं युद्धं चकार जनमेजयः । पूर्व रचितया तावत्सूदूरगसुरंगया ॥ ३०२ ॥ नाम्ना नागमती तस्या माता तनुजया समं । पूर्वमेव गता देशं शतमन्युयतिश्रितं ॥ ३०३ ॥ नागवत्याः सुता तस्मिन् दृष्ट्वा तं रूपशालिनं । मन्मथस्य शरैर्विद्धा तनुविक्लवताकरैः ॥३०४|| ततस्तामन्यथाभूतां दृष्ट्वा नागवती जगौ । सुते ! भव विनीता त्वं स्मर वाक्यं महामुनेः ॥ ३०५ ॥ पूर्वं हि मुनिना प्रोक्तं यथा त्वं चक्रवर्तिनः । भविता वनितारत्नमिति संज्ञानचक्षुषा ॥ ३०६ ॥ रक्तां च तस्य तां ज्ञात्वा भृशं भीतैरकीर्तितः । आश्रमात्तापसैर्मूढैर्हरिषेणो निराकृतः ॥ ३०७ ॥ ततो दग्धोपमानेन कन्यामादाय चेतसा । बभ्राम सततं श्लिष्टो भ्रामयैव स विद्यया ॥ ३०८ ॥ नाशने शयनीयेन पुष्पपल्लवकल्पिते । फलानां भोजने नैव पाने वा सरसों भसः ॥ ३०९ ॥ न ग्रामे नगरे नोपवने रम्यलताग्रहे । धृतिं लेभे समुत्कंठभराक्रांतः सशोकवान् ॥ ३१० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org