________________
पद्मपुराणम् ।
૨૧૬
अष्टमं पर्व ।
महालक्ष्मीरिति ख्याता सौभाग्यमदविह्वला । अवृत्तमवदत्तस्याः सपत्नी दुर्विचेष्टिता ॥ २८५ ॥ पूर्व ब्रह्मरथो यातु मदीयः पुरवर्त्मनि । भ्रमिष्यति ततः पश्चाद्वप्रया कारितो रथः ।। २८६ ।। इति श्रुत्वा ततो वा कुलिशेनेव ताडिता । हृदये दुःखसंतप्ता प्रतिज्ञामकरोदिमां ॥ २८७ ॥ भ्रमिष्यति रथोऽयं मे प्रथमं नगरे यदि । पूर्ववत्पुनराहारं करिष्ये ऽतोऽन्यथा तु न ॥ २८८ ॥ इत्युक्त्वा च बबंधासौ प्रतिज्ञां लक्ष्मवेणिकां । व्यापाररहितावस्था शोकम्लानास्य पंकजा ॥ २८९ ॥ तत श्वासान्विमुंचतीमश्रुबिंदूननारतं । हरिषेणः समालोक्य जननीमित्यवोचत ।। २९० ॥ मातः कस्मादिदं पूर्व स्वप्नेऽपि न निषेवितं । त्वया रोदनमारब्धममंगलमलं वद ।। २९१ ।। तयोक्तं स ततः श्रुत्वा हेतुमेवं व्यचिंतयत् । किं करोमि गुरोः पीडा प्राप्तेयं कथमीरिता ।। २९२ ॥ पितायं जननी चैषा द्वावप्येतौ महागुरू । करोमि के प्रति द्वेषमहो मग्नोऽस्मि संकटे ॥ २९३ ॥ असमर्थस्ततो दृष्टुं मातरं सानुलोचनां । निष्क्रम्य भवनाद्यातो वनं व्यालशमाकुलं ॥ २९४ ॥ तत्र मूलफलादीनि भक्षयन्विजने वने । सरस्सु च पिवन्नंभो विजहार भयोज्झित्तः ॥ २९५ ॥ रूपमेतस्य तं दृष्ट्वा पशवोऽपि सुनिर्दयाः । क्षणेनोपशमं जग्मुर्भव्यः कस्थ न सम्मतः ॥ २९६ ॥ तत्रापि स्मर्यमाणं तत्कृतं मात्रा प्ररोदनं । ववाषैतं प्रलापश्च कृतो गद्गदकंठया ॥ २९७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org