________________
१९५
पद्मपुराणम् ।
अष्टमं पर्व । अथासावन्यदापृच्छत् सुमालिनमुदद्भुतः । उच्चैर्गगनमारुहो विनयानतविग्रहः ॥ २७२ ॥ सरसीरहितेऽमुष्मिन् पूज्यपर्वतमूर्धनि । वनानि पश्य पदानां जातान्येतन्महाद्भुतं ॥ २७३ ॥ तिष्ठति निश्चलाश्चामी कथमत्र महीतले । पतिता विविधच्छायाः सुमहांतः पयोमुचः॥ २७४ ॥ नमः सिद्धेभ्य इत्युक्त्वा सुमाली तमथागदत् । नामूनि शतपत्राणि नचैते वत्स तोयदाः॥२७५।। सितकेतुकृतच्छायाः सहस्राकारतोरणाः । शृंगेषु पर्वतस्यामी विराजते जिनालयाः ॥ २७६ ।। कारिता हरिषेणेन सज्जनेन महात्मना । एतान् वत्स नमस्य त्वं भव पूतमनाः क्षणात् ॥२७७।। ततस्तत्रस्थ एवासौ नमस्कृत्य जिनालयान् । उवाच विस्मयापनो धनदस्य विमर्दकः ॥२७८॥ आसीरिक तस्य माहात्म्यं हरिषेणस्य कथ्यतां । प्रतीक्ष्यतम येनासौ भवद्भिरिति कीर्तितः॥२७९॥ सुमाली न्यगदच्चैवं साधु पृष्टं दशानन । चरितं हरिषेणस्य श्रृणु पापविदारणं ॥ २८० ॥ कांपिल्यनगरे राजा नाम्ना मृगपतिध्वजः । बभूव यशसा व्याप्तसमस्तभुवनो महान् ॥ २८१ ॥ महिषी तस्य वप्राहा प्रमदा गुणशालिनी । अभूत्सौभाग्यतः प्राप्ता पत्नी सा ललामतां ॥२८२॥ हरिषेणः समुत्पन्नस्स ताभ्यां परमोदयः । चतुःषष्ठिशुभैर्युक्तो लक्षणैः क्षतदुष्कृतः ॥ २८३ ॥ वप्रया चान्यदा जैने मते भ्रमयितुं रथं । अष्टान्हिकमहानंदे नगरे धर्मशीलया ॥ २८॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org