SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । अष्टमं पर्व। अरातिभंगचिह्नत्वादियेषेदं स मानवान् । अन्यथा तस्य किं नास्ति यानं विद्याविनिर्मित २५९ स तं विमानमारुह्य सामात्यः सहवाहनः । सपौरः सात्मजः साधं पितृभ्यां सह बंधुभिः॥२६०॥ अंतःपुरमहापद्मखंडमध्यगतः सुखी । अव्याहतगतिः स्वेच्छाकृतविभ्रमभूषणः ॥ २६१ ॥ चापत्रिशूलनिस्त्रिंशप्रासपाशादिपाणिभिः । भृत्यैरनुगतो भक्तैर्विहिताद्भुतकर्मभिः ॥ २६२ ॥ कृतशत्रुसमूहांतैः सामंतैर्बद्धमंडलैः । गुणप्रवणचेतोभिर्महाविभवशोभितैः ॥ २६३ ॥ वरविद्याधरीपाणिगृहीतैश्चारुचामरैः । वीज्यमानो विलिप्तांगो गोशीर्षादिविलेपनैः ॥२६४ ॥ उच्छ्रितेनातपत्रेण रजनीकरशोभिना । यशसेवागतः शोभा लब्धेनारातिभंगतः ॥ २६५॥ उदारं भानुवत्तेजो दधानः पुण्यजं फलं । विदन् दक्षिणमंबोधिं ययाविंद्रसमः श्रिया ॥ २६६ ॥ तस्यानुगमनं चक्रे कुंभकर्णो गजस्थितः । विभीषणो रथस्थश्च स्वगर्वविभवान्वितः ॥ २६७ ॥ महादैत्यो मयोऽप्येनमन्वियाय स बांधवः । सामंतैः सहितः सिंहशरभादियुतै रथैः ॥ २६८॥ मारीचोंबरविद्युच्च बज्रो बज्रोदरो बुधः । वज्राक्षः क्रूरनक्रश्च सारणः सुनयः शुकः ॥ २६९ ॥ मयस्य मंत्रिणोऽन्ये च बहवः खेचराधिपाः । अनुजग्मुरुदारेण विभवेन समन्विताः ॥२७॥ दक्षिणाशामशेषां स वशीकृत्य ततोऽन्यतः । विजहार महीं पश्यन् सवनाद्रिसमुद्रगां ॥ २७१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy