________________
पद्मपुराणम् ।
१९३
अष्टम पर्व। एतदर्थं न वांछंति संतो विषयजं सुखं । यदेतदध्रुवं स्तोकं सांतरायं सदुःखकं ॥ २४६ ॥ नागः कस्यचिदप्यस्य कर्मणामिदमीहितं । समस्तं प्राणिजातस्य कृतानामन्यजन्मनि ॥२४७॥ निमित्तमात्रताऽन्येषामसुखस्य सुखस्य वा । बुधास्तेभ्यो न कुप्यंति संसारस्थितिवेदिनः॥२४८॥ कल्याणमित्रतां यातः कैकसीतनयो मम । गृहावासमहापाशायेनाहं मोचितोऽमतिः ॥२४९ ॥ बांधवोभानुकर्णोऽपि संवृत्तः सांप्रतं मम । संग्रामकारणं येन कृतं परमसंविदे ॥ २५० ।। इति संचित्य जग्राह दीक्षां दैगंबरीमसौ । आराध्य च तपः सम्यक् क्रमाद्धाम परं गतः ॥२५१॥ प्रक्षाल्य दशवक्त्रोऽषि पराभवमलं कुले । सुखासिकामगादुव्यों बंधुभिः शेखरीकृतः॥ २५२ ॥ अथापवर्तितं तस्य मनोझं धानदाधिपं । प्रत्युप्तरत्नशिखरं वातायनविलोचनं ।। २५३ ॥ मुक्ताजालप्रमुक्तेन समूहेनामलत्विषा । समुत्सृजदिवाजस्रमश्रु स्वामिवियोगतः ॥ २५४ ॥ पद्मरागविनिर्माणमग्रदेशं दधच्छुचा । ताड़नादिव संप्राप्तं हृदयं रक्ततां परं ॥ २५५ ॥ इंद्रनीलप्रभाजालकृतं प्रावरणं कचित् । शोकादिव परिप्राप्तं श्यामलत्वमुदारतः ॥ २५६ ॥ चैत्यकाननबाह्यालीवाप्यंतर्भवनादिभिः । सहितं नगराकारं नानाशस्त्रकृतक्षतं ॥ २५७ ॥ भृत्यैरुपाहृतं तुंगं सुरप्रासादसन्निभं । विमानं पुष्पकं नाम विहायस्तलमंडनं ॥ २५८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org