________________
पद्मपुराणम् ।
१९२
अष्टम पर्व। जगाद स ततो ज्येष्ठस्त्वं मां प्रथममाजहि । वीर्यमक्षतकायानां शूराणां नहि वर्धते ॥ २३३ ॥ ऊर्ध्व ततो दशास्यस्य शरान् वैश्रवणोऽमुचत् । करानिवावनेर्मूर्ध्नि मध्याह्ने द्योतिषां पतिः २३४ चिच्छेद सायकान् तस्य ततो वाणैर्दशाननः । मंडपं च धनं चक्रे क्षणमात्रादनाकुलः ॥२३५।। रंधं वैश्रवणः प्राप्य शशांकार्धेषुणा ततः । दशास्यस्याच्छिनच्चापं चके चैतं रथच्युतं ॥ २३६ ।। ततोऽन्यं रथमारुह्य वेगादंभोदनिस्वनं । तथासत्त्वो दशग्रीवो डुढौके पुष्पकांतिकं ।। २३७ ॥ उल्काकारैस्ततस्तेन वज्रदंडैघनेरितः । कणशः कवचं कीर्ण धनदस्य महारुषा ।। २३८ ॥ हृदये शुक्लमालेऽथभिंडिमालेन वेगिना । जघान कैकसेयस्तं तथा मूर्छामितो यतः ॥ २३९ ।। ततो जातो महानंदः सैन्ये वैश्रवणाश्रिते । तोषाच्च रक्षसां सैन्ये जातः कलकलो महान्॥२४०॥ ततो भृत्यै समुदृत्य वीरशय्याप्रतिष्ठितः । क्षिप्रं यक्षपुरं नीतो धनदो भृशदुःखितः ॥ २४१ ॥ दशास्योऽपि जितं शत्रु ज्ञात्वा निववृते रणात् । वीराणां शत्रुभंगेन कृतत्वं न धनादिना।।२४२॥ अथ प्रतिक्रिया चक्रे धनदस्य चिकित्सकैः । प्राप्तश्च पूर्ववदेहमिति चक्रे स चेतसि ॥ २४३ ॥ द्रुमस्य मुक्तपुष्पस्य भग्नस्य वृषभस्य च । सरसश्चाप्यपद्मस्य वर्तेऽहं सदृशोऽधुना ॥ २४४ ॥ मानमुद्वहतः पुंसो जीवतः संसृतौ सुखं । तच्च मे सांप्रतं नास्ति तस्मान्मुक्त्यर्थमायते ॥ २४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org