________________
पद्मपुराणम् ।
१९१
अष्टम पर्व।
विवेदेति च धिक्कष्टं संसार दुःखभाजनं । चक्रवत्परिवर्तते प्राणिनो यत्र योनिषु ॥ २२० ॥ पश्यैश्वर्यमूढेन किं वस्तु प्रस्तुतं मया । बंधुविध्वंसनं यत्र क्रियते गर्ववत्तया ॥ २२१ ।। उदात्तमिति चावोचद् भो भो श्रृणु दशानन । किमिदं क्रियते पापं क्षणिकश्रीप्रचोदितं ॥२२२।। मातृश्वसुः सुतोऽहं ते सोदरप्रीतिसंगतः। ततो बंधुषु नो युक्तं व्यवहर्तुमसांप्रतं ॥ २२३ ॥ कृत्वा प्राणीवधं जंतुर्मनोज्ञविषयाशया । प्रयाति नरकं भीमं सुमहादुःखसंकुलं ॥ २२४ ॥ यथैकदिवसं राज्यं प्राप्त संवत्सरवधं । प्राप्नोति सदृशं तेन निश्चये विषयी सुखं ॥ २२५ ॥ चक्षुःपक्ष्मपुटासंगक्षणिकं ननु जीवितं । न वेत्सि किं यतः कर्म कुरुते भोगकारणं ॥ २२६ ॥ ततो हसन्नुवाचेदं दशास्यः करुणोज्झितः । धर्मश्रवणकालोऽयं न वैश्रवण ! वर्तते ।। २२७॥ मत्तस्तंबेरमारूडैमंडलायकरैनरैः । क्रियते मारणं शत्रोनतु धर्मनिवेदनं ॥ २२८ ॥ मार्गे तिष्ठ कृपाणस्य किं व्यर्थ बहुभाषसे । कुरु वा प्रणिपातं ये तृतीयास्ति न ते गतिः ।।२२९॥ अथवा धनपालस्त्वं द्रविणं मम पालय । कुर्वाणो हि निजं कर्म पुरुषो नैव लज्जते ॥ २३० ॥ ततो वैश्रवणो भूय उवाचेति दशाननं । नूनमायुस्तव स्वल्पं क्रूरं येनेतिभाषसे ॥ २३१॥ भूयोऽपि मानसं विभ्रत्ततो रोषणरूषितं । अस्ति चेत्तव सामर्थ्य जहीत्याह दशाननः ॥२३२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org