________________
पद्मपुराणम् ।
१९०
अष्टमं पर्व ।
बभूव सुमहज्जन्यं कृतविक्रांत संमदं । कातरोत्पादितत्रासं शिरःक्रीतयशोधनं ॥ २०७ ॥ ततो निजं बलं नीतं खेदं यक्ष भटैश्चिरात् । साधारयितुमारब्धो दशास्यो रणमस्तकं ॥ २०८ ॥ अभ्यायांतं च तं दृष्ट्वा सितातपत्रवारणं । कालमेघमिवोद्धस्थरजनीकरमंडलं ॥ २०९ ॥ सचापं तमिवासक्कशचीपतिशरासनं । हेमकंटकसंवीतं विद्युतातमिवाचितं ॥ २१० ॥ किरीटं विभ्रतं नानारत्न संगविराजितं । युक्तं तमिव वज्रेण छादयंतं नमस्त्विषा ।। २११ ॥ विलक्षाश्चाभवन् यक्षा विषण्णाक्षाः क्षतौजसः । परांमुखक्रियायुक्ताः क्षणात्क्षीणरणाशयाः २१२ त्रासाकुलितचित्तेषु ततो यक्षपदातिषु । आवर्तमिव यातेषु भ्रमत्सु सुमहारवं ।। २१३ ॥ स्व सेनामुखतां जग्मुर्यक्षाणां बहवोऽधिपाः । पुनरेभिः कृतं सैन्यं रणस्याभिमुखं तथा ॥ २९४ ॥ तत उच्छेत्तुमारब्धो यक्षनाथान् दशाननः । उत्पत्योत्पत्य गगने सिंहो मत्तगजानिव ॥ २१५ ॥ प्रेरितः कोपवातेन दशाननतनूनपात् । शस्त्रज्वालाकुलः शत्रुसैन्यकक्षे व्यजृंभत ॥ २१६ ॥ सोऽस्ति पुरुषो भूमौ रथे वाजिनि वारणे । विमाने वा न यच्छिद्रः कृतो दाशाननैः शरैः ततोभिमुखमायांतं दृष्ट्वा दशमुखं रणे । अभजद्वांधव स्नेहं परं वैश्रवणः क्षणात् ॥ २१८ ॥ विषादमतुलं चागान्निर्वेदं च नृपश्रियः । यथा बाहुवली पूर्व शमकर्मणि संगते ॥ २१९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org