________________
अष्टमं पर्व ।
१८९
पद्मपुराणम् ।
तर्योधनविभूत्यास्य कोपवन्हिः समुत्थितः । अमात इव सोतेन भृत्यचेतः सुवंठितः ॥ १९४ ॥ अचीकरच्च संग्रामसंज्ञां परुषतूर्यतः । रणसज्जा यथा सद्यो मणिभद्रादयः कृताः ॥ १९५ ॥ निरैद्वैश्रवणो योद्धुं यक्षयोधैस्ततो वृतः । विलसत्सायकप्रासचक्राद्यायुधपाणिभिः ॥ १९६ ॥ स निर्भरांजनक्षोणीधराकारैर्मतंगजैः । संध्यारागसमाविष्टमेघाकारैर्महारथैः ॥ १९७॥ प्रस्फुरच्चामरैरश्वैर्जयद्भिर्जवतोऽनिलं । सुरावाससमाकारैर्विमानै दूरमुन्नतैः ॥ १९८ ॥ लंघिताश्च विमानेन स्यंदनेनोरुतेजसा । पादातेन च संघट्टमीयुषार्णवराविणा ।। १९९ ।। पूर्वमेव च निष्क्रांत दशग्रीवो महाबलः । भानुकर्णादिभिः सार्द्धं स्थितो रणमहोत्सवः॥ २००॥ गुंजाख्यस्य ततो मूर्ध्नि पर्वतस्य तयोरभूत् । संपातः सेनयोः शस्त्रसंयोगतपावकः || २०१ ॥ hudaaaisarai सप्तीनां हेषितेन च । पदातीनां च नादेन गजानां गर्जितेन च ॥ २०२ ॥ अन्योऽन्यसंग मोद्भूतरथ शब्देन चारुणा । तूर्यस्वरेण चोग्रेण शीत्कारेण च पत्रिणां ॥ २०३ ॥ ध्वनिः कोऽपि विमिश्रोऽभूत् प्रतिनादेन बोधितः । च्याप्नुवन् रोदसीकुर्वन् भटानां मदमुत्तमं ॥ कृतवदनाकारैश्चत्रैः स्फुरितधारकैः । खङ्गैस्तद्रसनाकारैः रक्तसीकरवर्षिभिः ॥ २०५ ॥ तद्रोमसन्निभैः कुंभैस्तत्तर्जन्योपमैः शरैः । परिधैस्तद्भुजाकारैस्तनुमुष्टिभिः मुद्गरैः || २०६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org