________________
पद्मपुराणम् ।
अष्टमं पर्व ।
कोऽसौ वैश्रवणो नाम को केंद्रः परिभाष्यते । अस्मद्गोत्रक्रमायाता नगरी येन गृह्यते ॥ १८२॥ सोयं श्येनायते काकः श्रृगालः करभायते । इंद्रायते स्वभृत्यानां नित्रपः पुरुषाधमः || १८२|| आः कुदूत पुरोऽस्माकं गदत परुषं वचः । निश्शंकस्य शिरस्तावत्पातयामि रुपे वलिं ॥ १८३ || इत्युक्त्वा कोशतः खड्गमाचकर्षत्कृतं वियत् । इंदीवरवनेनेव येन व्याप्तं महासरः || १८४ ॥ कुर्वाणं कणनं वाताद्रोषादिव सकंपनं । नीतकालमिवासनं हिंसाया इव शावकं ।। १८५ ।। उद्भूर्णश्चायमेतेन वेगादागत्य चांतरं । विभीषणेन संरुद्धः सांत्वितश्चेति सादरं ।। १८६ ॥ भृत्यस्यास्यापराधः कः क्लीवस्यापहतात्मनः । विक्रीतनिजदेहस्य शुकस्येवानुभाषिणः ॥ १८७॥ हृदयस्थेन नाथेन पिशाचेनेव चोदिताः । दूता वाचि प्रवर्तते यत्र देहा इवावशाः ॥ १८८ ॥ तत्प्रसीद दयामार्य कुरु प्राणिनि दुःखिते । अकीर्तिरुद्रवत्युर्वीलोके क्षुद्रवधे कृते ॥ १८९ ॥ शिरस्सु विद्विषामेव तव खड़ः पतिष्यति । नहि गंडूपदान् हंतुं वैनतेयः प्रवर्तते ॥ १९० ॥ एवं कोपानलस्तस्य यावत्सद्वाक्यवारिणा । शममानीयते तेन साधुना न्यायवादिना ॥ १९९ ॥ पादयोस्तावदाकृष्य दूतोऽन्यैर्मुखलक्षितः । क्षिप्रं निष्कासितो गेहाद्धिग्भृत्यं दुःखनिर्मितं । । १९२ ॥ गत्वा वैश्रवणायेयमवस्था तेन वेदिता । दशग्रीवाद्विनिष्क्रांता वाणी चात्यंतदुःकथा ॥ १९३ ।।
१८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org