________________
अष्टमं पर्व ।
पद्मपुराणम् ।
एवंविधस्य ते युक्तं कुर्वतं शिशुचापलं । प्रमत्तचेतसं पौत्रं निवारयितुमात्मनः ।। १६८ ।। तिरश्चां मानुषाणां च प्रायो भेदोऽयमेव हि । कृत्याकृत्यं न जानंति यदेकेऽन्यत्तु तद्विदः ॥ १६९ ॥ विस्मरंति च नो पूर्व वृत्तांतं दृढमानसाः । जातायामपि कस्यचिद्भूतौ विद्युत्समद्युतौ ॥ १७० ॥ शांतिर्मालिबधेनैव शेषस्य स्यात्कुलस्य ते । कोहि स्वकुलनिर्मूलध्वंस हेतु क्रियां भजेत् ॥ १७१ ॥ समुद्रवीचिसंसक्तशक्रस्य ध्वस्तविद्विषः । प्रतापो विस्मृतः किं ते यतोऽनुचितमीहते ॥ १७२ ॥ सत्वं क्रीडति मंडूको दंष्ट्राकंटक संकटे । वक्त्ररंध्रे भुजंगस्य विषाग्निकणमोचिनि ॥ १७३ ॥ नियंतुमथ शक्नोषि नैतं तस्करदारकं । ततो ममार्पयाद्यैव करोम्यस्य नियंत्रणं ॥ १७४ ॥ नैवं चेत्कुरुते पश्य ततश्चारकवेश्मनि । निगडैः संयुतं पौत्रं यात्यमानमनेकधा ।। १७५ ।। अलंकारोदयं त्यक्त्वा चिरंकालमवस्थितः । तदेवविवरं भूयः प्रवेष्टुमभिवांछसि ।। १७६ ।। कुपिते मयि शक्रे वा न तेऽस्ति शरण भुवि । जलबुद्बुद्वद्वातादचिरादेव नश्यसि || १७७ ॥ ततः परुषवाग्वातवेगाहतमनोजलः । क्षोभं परममायातो दशाननमहार्णवः ।। १७८ ॥ प्रतीकग्राहवच्चास्य प्रस्फुरस्वेदमोचिनः । चक्षुषात्यंतरक्तेन दिग्धं सकलमम्बरं ।। १७९ ॥ ततो वधिरयन्नाशाः स्वरेणांवरगामिना । करिणो निर्मदीकुर्वन् वभाण प्रतिनादिना ॥ ९८० ॥
Jain Education International
१८७
For Private & Personal Use Only
www.jainelibrary.org