________________
१८६
पद्मपुराणम् ।
अष्टमं पर्व। मातामहगृहे वृद्धि प्राप्तश्च जननंदनः । सत्कुर्वत् निर्भरक्रीडां सिंहशाव इवोत्तमां ॥ १५५॥ ततोऽसौ पुनरानीता सपुत्रा भर्तुरतिकं । दत्तदुःखा पितुः स्वस्य पुत्रस्य च वियोगतः ॥१५६।। दशग्रीवोऽथ पुत्रास्यं दृष्ट्वा परममागतः । आनंदं पुत्रतो नान्यं प्रीतेरायतनं परं ॥ १५७ ॥ कालक्रमात्पुनर्गर्भ दधाना पितुरंतिकं । नीता स्वयं प्रसूता च मघवाहनबालकं ॥ १५८ ॥ भतुरंतिकमानीता पुनः सा भोगसागरे । पतिता स्वेच्छया तिष्ठन् गृहीता पतिमानसा ॥१५९॥ दारको स्वजनानंदं कुर्वाणौ चारुविभ्रमौ । तौ युक्त्वं परिप्राप्तौ महोक्षविपुलेक्षणौ ।। १६० ॥ अथ वैश्रवणो यासां कुरुते स्वामितां पुरा । व्यध्वंसयदिमा गत्वा कुंभकर्णः सहस्रशः॥१६१॥ तासु रत्नानि वस्त्राणि कन्यकाश्च मनोहरा । गणिकाश्चानयद्वीरः स्वयंप्रभपुरोत्तमं ॥ १६२ ।। अथ वैश्रवणः क्रुद्धो ज्ञात्वा पृथुकचेष्टितं । सुमालिनोंऽतिकं दूतं प्रजिघायातिगर्वितः॥१६३॥ प्रविवेश ततो दूतः प्रतिहारनिवेदितः । उपचारं च संप्राप्तः कृतकं लोकमार्गतः ॥ १६४ ॥ उवाचेदं तथा दूतो वाक्यालंकारसंज्ञितः । समक्षं दशवक्त्रस्य सुमालिनमिति क्रमात् ॥१६५ ॥ समस्तभुवनव्यापिकीर्तिविश्रमणश्रुतिः । चरतीदं महाराजो भवंतं कुरु चेतसि ॥ १६६ ॥ पंडितोऽसि कुलीनोऽसि लोकज्ञोऽसि महानसि । अकार्यसंगभीतोऽसि देशकोऽसि सुवर्त्मसु १६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org