________________
पद्मपुराणम् ।
अष्टमं पर्व ।
अथ कुंभपुरे राजमहोदरसुतां वरां । सुरूपाक्षीसमुद्भूतां तडिन्मालाभिधानकां ।। १४२ ॥ भास्करश्रवणो लेभे सुप्रीतः स तया समं । चारुविभ्रमकारिण्या निमग्नो रतिसागरे ॥ १४३ ॥ तत्र कुंभपुरे तस्य केनचित्कृतशब्दने । श्वसुर स्नेहतः कर्णौ सततं पेततुर्यतः ॥ १४४ ॥ कुंभकर्ण इति ख्यातिं ततोऽसौ भुवने गतः । धर्मसक्तमतिर्वीरः कलागुणविशारदः ।। १४५ ।। अथ स प्रखलैः ख्यातिमन्यथा गमितो जनैः । मांसासृम्जीवनत्वेन तथा षण्मासनिद्रया १४६ आहारोऽस्य शुचिः स्वादुर्यथाकामप्रकल्पितः । सुरभिर्बंधुयुक्तस्य प्रथमं तर्पितातिथिः || १४७ || संध्यासंवेशनोत्थानमध्यकालप्रवर्तिनी । निद्रास्य शेषकालस्तु धर्मव्यासक्तचेतसः ॥ १४८ ॥ परमार्थाऽवबोधेन वियुक्ताः पापचेतसः । कल्पयंत्यन्यथाऽसाधून् धिक्तान् दुर्गतिगामिनः १४९ अथास्तिदक्षिणश्रेण्यां नाना ज्योतिःप्रभं पुरं । विशुद्धकमलस्तत्र राजा मयमहासुहृत् ॥ १५० ॥ तस्य नंदनमालायामुत्पन्ना वरकन्यका । राजीवसरसीनाम्ना पतिं प्राप्ताविभीषणं ।। १५१ । कांतया कांतया साकं न स प्राप रतिं कृती । देववत्परमाकारः पद्मया पद्मयातया ।। १५२ ।। अथ मंदोदरी गर्भ कालयोगाददीधरत् । सद्यः कल्पितचित्तस्थदोहदाहारि विभ्रमा ।। १५३ ।। नीता च जनकागारं प्रसूता बालकंदलं । इंद्रजित्ख्यातिमायातो यः समस्तमहीतले ।। १५४ ॥
Jain Education International
१८५
For Private & Personal Use Only
www.jainelibrary.org