________________
पद्मपुराणम् ।
अष्टम पर्व । सुरसुंदरतो जाता नाम्ना पद्मवती शुभा । सर्वश्रीयोषिति स्फीतनीलोत्पलदलेक्षणा ॥ १०३ ॥ कन्याऽशोकलता नाम बुधस्य दुहिता वरा । मनोवेगासमुत्पन्ना नवाऽशोकलतासमा ॥ १०४॥ संध्यायां कनकाज्जाता नाम्ना विद्युत्प्रभा परा । विद्युतं प्रभया लज्जा या नयेच्चारुदर्शना १०५ महाकुलसमुद्भूता ज्येष्ठा तासामिमा श्रिया । विभूत्या च त्रिलोकस्य मूर्ता सुंदरता इव ॥१०६॥ आकल्पकं च संप्राप्तास्तं ययुस्ताः सहेतराः । सोत्तापत्रपा तावद्दुस्सहा स्मरवेदनाः ॥ १०७ ।। गांधर्वविधिना सर्वा निराशंकेन तेन ताः। परिणीताः शशांकेन ताराणामिव संहतीः॥१०८॥ दशग्रीवेण साधं ताः पुनः क्रीडांप्रचक्रिरे । अन्योऽन्याहंयुतां प्राप्य प्रथमोपगमाकुलाः॥१०९॥ संप्रत्येव हि सा क्रीडा क्रियते तेन या समं । शशांकेन विमुक्तानां ताराणां काभिरूपता ११० ततः कंचुकिभिस्तासामाशु गत्वा निवेदितं । जनकेभ्य इदं वृत्तं रत्नश्रवससंभवं ॥ १११ ॥ ततस्तैः प्रहिताः क्रूराः पुरुषास्तद्विनाशने । संदष्टोष्ठपुटा बद्धभ्रकुटीकोटिसंकटाः ॥ ११२ ॥ विविधानि विमुंचंतस्ते शस्त्राणि समं ततः । भ्रूक्षेपमात्रकेणैव कैकसेयेन निर्जिताः ॥ ११३ ॥ भयवेपितसर्वांगा ततस्तेऽमरसुंदरं । व्यज्ञापयन् समागत्य शस्त्रनिर्मुक्तपाणयः ॥ ११४ ॥ गृहाण जीवनं नाथ हर वा नः कुलांगनाः । छिंधि वा चरणौ पाणी ग्रीवां वा न वयं क्षमाः ११५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org