________________
पद्मपुराणम् ।
१८३
अष्टमं पर्व ।
कन्यानिवहमध्यस्थः कोऽपि धीरो विराजते । सुरेंद्रसुंदरः कांत्या समानो रजनीपतेः ॥ ११६ ॥ क्रुद्धस्य तस्य नो दृष्टिं देवाः शक्रपुरस्सराः । सहेरन् किमुत क्षुद्रा अस्मत्तुल्याः शरीरिणः॥११७॥ रथनूपुरनार्थेद्रप्रभृत्युत्तममानवाः । वीक्षिता बहवोऽस्माभिरयं तु परमादृतः ।। ११८ ॥ एवं श्रुत्वा महाक्रोधरक्तास्योऽमरसुंदरः । निरैत्सन्नह्यसंयुक्तो बुधेन कनकेन च ।। ११९ ।। अन्ये च बहवः शूराः पतयो व्योमगामिनां । निश्चक्रमुर्वियद्दीप्तं कुर्वाणाः शस्त्ररश्मिभिः ॥ १२० ॥ ततस्तानायतो दृष्ट्वा ता भयाकुलमानसाः । विद्याधरसुता ऊचुरिदं रत्नश्रवः सुतं ॥ १२१ ॥ अस्मत्प्रयोजनान्नाथ ! प्राप्तोस्यत्यंतसंशयं । पुण्यहीना वयं कष्टं सर्वा अप्यपलक्षणाः ॥ १२२ ॥ उत्तिष्ठ शरणं गच्छ कं च नाथ प्रसीद नः । उत्पत्य गमनं क्षिप्रं रक्ष प्राणान् सुदुर्लभान् ॥ १२३ ॥ अस्मिन्वा भवने जैने भूत्वा प्रच्छन्नविग्रहः । तिष्ठ यावदिमे क्रूरा नेते भवतस्तनुं ॥ १२४ ॥ श्रुत्वा वाक्यमिदं दीनं दृष्ट्रा च निकटं बलं । सिते कुमुदवत्तेन नेत्रे पद्मनिभे तते ।। १२५ ।। उवाच च न मां नूनं विच्छ यद्वदथेदृशं । किमेभिः क्रियते काकैः संभूयापि गरुत्मतः ॥ १२६ ॥ एकाकी पृथुकः सिंहः प्रस्फुराच्छितकेसरः । किंवा नानयते ध्वंसं यूथं संमददंतिनां ॥ १२७ ॥ इदं ताः पुनरूचुस्तं यद्येवं नाथ मन्यसे । ततोऽस्माकं पितॄन् रक्ष भ्रातॄंथ स्वजनांस्तथा १२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org