________________
पद्मपुराणम् ।
१८१
अष्टमं पर्व । एवं च रममाणोऽसौ नाम्ना मेघरवं गिरिं । प्रापत्तत्र च सद्वापीमपश्यद्विमलांभसां ॥ ९० ॥ कुमुदैरुत्पलैः पद्मैस्वच्छैरन्यैश्च वारिजैः । पर्यंतसंचरत्क्रौंच हंसचक्रासारसां ॥ ९१ ॥ मृदुशष्यपटच्छन्नतटां सोपानमंडितां । नमसेव विलीनेन पूरितां सवितुः करैः ॥ ९२ ॥ अर्जुनादिमहोत्तुंगपादपव्याप्तरोधसां । प्रस्फुरच्छफरीचक्रसमुच्छलितशीकरां ॥ ९३ ॥
क्षेपानिवकुर्वाणां तरंगैरतिभंगुरैः । जल्पंतीमिव नादेन पक्षिणां श्रोत्रहारिणां ॥ ९४ ॥ तत्र क्रीडाप्रसक्तानां दधतीनां परां श्रियं । षट् सहस्राणि कन्यानामपश्यत्केकसीसुतः ।। ९५ ।। काश्चिच्छीकरजालेन रेमिरे दूरगामिना । पलायंतेस्म सत्कन्या दूरं सख्याकृतागसः ॥ ९६ ॥ प्रदर्श्य रदनं काचित् पद्मखंडे सशैवले । कुर्वती पंकजाशंकं सखीनां सुचिरं स्थिता ॥ ९७ ॥ मृदंगनिस्वनं काचिच्चक्रे करतलाहतं । कुर्वाणा सलिलं मंदं गायंती षट्पदैः समं ॥ ९८ ॥ ततस्ता युगपद्दृष्ट्वा कन्या रत्नश्रवः सुतं । क्षणं त्यक्तजलक्रीडा बभूवुस्तंभिता इव ।। ९९ ।। मध्यं तासां दशग्रीवो गतो रमणकांक्षया । रंतुमेतेन साकं ता व्यापारिण्योऽभवन् पुनः ॥ १०० ॥ आहताश्च समं सर्वा निशिखैः पुष्पधन्वनः । दृष्टिरासामभूदस्मिन् बद्धवानन्यचारिणी ॥ १०१ ॥ मिश्र कामरसे तासां त्रपया पूर्वसंगमात् । मनो दोलामिवारुढं बभूवात्यंतमाकुलं ।। १०२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org