________________
पद्मपुराणम् ।
१८०
अष्टमं पर्व ।
प्राप्नुयाद्यदि नामैतां कन्यामिंद्रियहारिणीं । कृतार्थ नस्ततो जन्म जायते तृणमन्यथा ॥ ७७ ॥ चिंतयंतमिमं चैवं मयोऽभिप्राय कोविदः । उपनीय सुतामाह प्रभुरस्या भवानिति ॥ ७८ ॥ तेन वाक्येन सिक्तोऽसावमृतेनेव तत्क्षणात् । तोषस्येवांकुरान् जातान् दधे रोमांचकंटकान् ॥७९॥ ततोऽनयोः क्षणोद्भूतसर्ववस्तुसमागमं । स्वजनानंदितं वृत्तं पाणिग्रहणमंगलं ॥ ८० ॥ समं तया ततो यातः स्वयंप्रभपुरं कृती । मन्यमानः श्रियं प्राप्तां समस्तभुवनश्रितां ॥ ८१ ॥ मयोऽपि तनयाचिंताशल्योद्वारात्ससंमदः । तद्वियोगात्सशोकच स्थितः स्वोचितधामनि ॥८२॥ प्रापद्देवीसहस्रस्य प्राधान्यं चारुविभ्रमा । क्रमान्मंदोदरी भर्तुर्गुणैराकृष्टमानसा ॥ ८३ ॥ अभिप्रेतेषु देशेषु स रेमे सहितस्तया । पुरंदर इवेंद्राण्या सर्वेन्द्रियमनोज्ञया ॥ ८४ ॥ प्रभावं वेदितुं वांछन् विद्यानामपि भूरिशः । व्यापारानित्यसौ चक्रे समेतः परया रुचा ॥८५॥ एको भवत्यनेकश्च सर्वत्रीकृतसंगमः । वितनोत्यर्कवत्तापं ज्योत्स्नां मुंचति चंद्रवत् ॥ ८६ ॥ वन्हिवन्मुंचति ज्वालां वर्षनंबुधरो यथा । वायुवच्चलयत्यद्रीन् कुरुते सुरनाथतां ॥ ८७ ॥ आपगानाथतां याति पर्वतत्वं प्रपद्यते । मत्तवारणतामेति भवत्यश्वी महाजवः ॥ ८८ ॥ क्षणादारात्क्षणाद्दूरे क्षणाद्दृश्यः क्षणाच्च नो । क्षणान्महान् क्षणात्सूक्ष्मः क्षणाद्भीमो नच क्षणात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org