________________
पद्मपुराणम् ।
अष्टमं पर्व। इंदीवरारविंदानां कुमुदानां च संहतीः । विमुंचतीमिवाशासु दृष्टया दूत्या मनोभुवः ॥ ६४ ॥ अष्टमीशर्वरीनाथसमानालिकपट्टिकां । संगतश्रवणां स्निग्धनीलसूक्ष्मशिरोरुहां ॥ ६५॥ शोभयाऽऽस्यांड्रिहस्तानां जंघानामिव पमिनीं । जयंती करिणी हंसी सिंहीं च गतिविभ्रमैः॥६६॥ विद्यालिंगनजामीयां धारयन्ती दशानने । पद्मालयं परित्यज्य लक्ष्मीमिव समागतां ॥ ६७ ॥ अंगनाविषयां सृष्टिमसर्वामिव कर्मणा । आहत्य जगताशेषं लावण्यमिव निर्मितां ॥ ६८॥ दिवाकरकरस्पर्शस्वर्भानुग्रहभीतितः । तारापतिं परित्यज्य क्षितिं कांतिमिवागतां ॥ ६९॥ सीमंतमणिभाजालरचितास्यावगुंठनां । हारेण वक्त्रलावण्यसेतुनेव विभूषितां ॥ ७० ॥ कर्णयोालिकालोकाम् मुक्ताफलसमुत्थिताम् । सितस्य सिंदुवारस्य मंजरीमिव विभ्रतीं ॥७१॥ कंदर्पदर्पसंक्षोभं सहते जघनं न यत् । इतीव वेष्टितं कांच्या मणिचक्रककांतया ॥ ७२ ॥ मनोज्ञामपि तां दृष्ट्वा दुःखितोऽभूत्सचिंतया । नीयंते विषयैः प्रायः सत्त्ववंतोऽपि वश्यतां॥७३॥ तस्यां माधुर्ययुक्तायां दृष्टिस्तस्य गता सती । अभवन्मधुमत्तेव प्रत्यानीतापि घूर्णिता ॥ ७४ ।। अचिंतयत्तदा नाम स्यादियं वनितोत्तमा । हीः श्रीलक्ष्मीधृतिः कीर्तिः प्राप्तमूर्तिः सरस्वती ७५ किमूहेयमुतानूढ़ा माया वा केनचित्कृता । अहो सृष्टिरियं मूर्ध्नि स्थिता निखिलयोषितां ॥७६॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org