________________
१७८
अष्टमं पर्व ।
इदं मयसुतः प्राह तात युक्तमिदं तव । प्रतिकूलसमाचारा न भवत्येव साधवः ॥ ५१ ॥ दृष्टोऽसौ सचिवैस्तस्य कौतुकाक्रांतमानसैः । कृतानंदच सद्वाक्यैः पुनरुक्तैः समाकुलैः ॥ ५२ ॥ ततो गर्भगृहं रम्यं प्रविष्टोऽयं स्वभावतः । चकार महतीं पूजां जिनेंद्राणां विशेषतः ॥ ५३ ॥ स्तवांश्च विविधानुक्त्वा रोमहर्षणकारिणः । मस्तकेंऽजलिमास्थाय चूड़ामणिविभूषिते ॥ ५४ ॥ स्पृशैल्ललाटपट्टेन जानुभ्यां च महीतलं । पावनौ स जिनेंद्राणां ननाम चरणौ चिरं ॥ ५५ ॥ ततो गेहाज्जिनेंद्राणां निष्क्रांतः परमोदयः । सहितौ दैत्यनाथेन निविष्टः सुखमासने ॥ ५६ ॥ विजयार्धगिरिस्थानां पृच्छन् वार्तां खगामिनां । चक्षुषो गोचरीभावं निन्ये मंदोदरीमसौ ॥ ५७ ॥ चारुलक्षणसंपूर्णां सौभाग्यमणिभूमिकां । तनुस्निग्धनखोत्तुंग पृष्टपादसरोरुहां ॥ ५८ ॥ रंभास्तंभसमानाभ्यां तूणाभ्यां पुष्पधन्वनः । लावण्यांभः प्रवाहाभ्यामुरुभ्यामतिराजितां ।। ५९ ।। युक्तविस्तारमुत्तुंगं मन्मथास्थानमंडपं । नितंबं दधतीमग्र कुकुंदर मनोहरं ॥ ६० ॥ वज्रमध्यामधोवक्त्रां हैमकुभनिभस्तनीं । शिरीषसुमनोमालां मृदुबाहुलतायुगां ॥ ६१ ॥ कंबुरेखानतग्रीवां पूर्णचंद्रसमाननां । नेत्रकांतिनदीसेतुबंधसन्निभनासिकां ।। ६२ ।। रक्तदंतच्छदच्छायाछुरिताच्छकपोलकां । वीणाभ्रमरसोन्मादपरिपुष्टसमस्वनां ॥ ६३ ॥
पद्मपुराणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org