________________
पद्मपुराणम् ।
अष्टम पर्व। यदि च स्युभवन्तोऽपि दृष्टुमेवं समागताः । क्षणमात्रं ततोऽत्रैव स्थानं कुर्वतु सज्जनाः ॥ ३८ ॥ यावदेवं समालापो वर्तते मधुरस्तयोः । तेजसां मंडलं तावद्ददृशाते नभस्तले ॥ ३९ ॥ उक्तं च कन्यया नूनमागतोऽयं दशाननः । सहस्रकिरणं कुर्वन् प्रभया विगतप्रभं ॥ ४० ॥ विद्युइंडेन संयुक्तं मेघानामिव तं चयं । अवलोक्य समासन्नमुत्तस्थौ संभ्रमान्मयः ॥४१॥ कृत्वा यथोचिताचारमासनेषु पुनः स्थितः । मंडलाग्रप्रभाजालश्यामलीकृतविग्रहः ॥ ४२ ॥ मारीचो वज्रमध्यश्च वज्रनेत्रो नभस्तडित् । उग्रनको मरुद्वको मेधावी सारणः शुकः ॥ ४३ ।। एवमाद्या गतास्तोषं परं दृष्ट्वा दशाननं । इत्युचुमंगलं वाक्यं दैत्यनाथस्य मंत्रिणः ॥ ४४ ॥ अस्मभ्यं तब दैत्यस्य धिषणातिगरीयसी । नराणामुत्तमो येन मनस्येष निवेशितः ॥ ४५ ॥ इति चाह दशग्रीवमहो ते रूपमुज्वलं । अहो प्रश्रयसंभारो वीर्य चातिशयान्वितं ॥ ४६ ॥ दक्षिणस्यामयं श्रेण्यामसुरप्रथिते पुरे । दैत्यानामधिपो नाम्ना मयो भुवनविश्रुतः ॥ ४७ ॥ गुणैरेष समाकृष्टः कुमार तव निर्मलैः । आयातः कं न कुर्वति सजना दर्शनोत्सुकं ॥ ४८ ॥ स्वागतादिकमित्याह ततो रत्नश्रवस्सुतः। सतां हि कुलविद्येयं यन्मनोहरभाषणम् ॥ ४९ ।। साधुना दैत्यनाथेन प्रेमदर्शनकारिणा । उचितेन नियोगेन जनोऽयमनुगृह्यतां ॥५०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org