________________
पद्मपुराणम् ।
अष्टमं पर्व
1
वनस्य पश्य मध्येऽस्य शंखशुभ्र महागृहं । नगरं शरदंभोद महावृंदसमद्युति ।। २५ ।। समीपे च पुरस्यास्य पश्य प्रासादमुन्नतं । सौधर्ममिव यः स्पष्टुमीहते शृंगकोटिभिः ॥ २६ ॥ अवतीर्य नभोभागात्समीपे तस्य वेश्मनः । सानीकिनी विशश्राम चकार च यथोचितं ॥ २७ ॥ तूर्यादि डंबरं त्यक्त्वादैत्यानामधिपस्ततः । आप्तैः कतिपयैर्युक्तो विनीताकल्पशोभितः ॥ २८ ॥ अभिमानोदयं मुक्त्वा सकन्यः प्राप्तविस्मयः । तं प्रासादं समारुह्य प्रतीहारनिवेदितः ॥ २९ ॥ सप्तमं च तलं प्राप्तः क्रमेण निभृतक्रमः । वनदेवीमिवैक्षिष्ट मूर्तमुत्तमकन्यकां ॥ ३० ॥ अर्थेदुनखया तस्य कृताभ्यागमसत्क्रिया । प्रपद्यतपरिभ्रंशं कुलजातोपचारतः ॥ ३१ ॥ ततः स चासनासीनः स्थितां कन्योचितासने । अपृच्छत्प्रश्रयादेवं तां मयो विनयान्वितां ॥ ३२ ॥ वत्सेकासि कुतो वास कस्माद्वा कारणादिह । वससि प्रभयेऽरण्ये कस्य चेदं महागृहं ॥ ३३ ॥ एकाकिन्या कथं चास्मिन् धृतिरुत्पद्यते तव । वपुरुत्कृष्टमेतत्ते पीडानां नैव माजनं ॥ ३४ ॥ एवं पृष्टा सती बाला स्त्रीणां स्वाभाविकी त्रया । मंदं वनमृगी मुग्धा जगादेति नतानना ।। ३५ ।। षष्ठभक्तेन संसाध्य चंद्रहासमिमं मम । शैलराजं गतो भ्राता वंदितुं जिनपुंगवान् ।। ३६ ।। दशवक्त्रेण तेनाहं पालनार्थ निरूपिता । आर्य तिष्ठामि चेत्येस्मिन् चंद्रप्रभविराजिते ॥ ३७ ॥
Jain Education International
१७६
For Private & Personal Use Only
www.jainelibrary.org