________________
पद्मपुराणम् ।
१७५
अष्टमं पर्व। इत्युक्तो मंत्रिभिः साधं चकारासौ प्रधारणं । केनचिन्मत्रिणा कश्चिदुद्दिष्टः खेचरस्ततः ॥१२॥ अन्येनेंद्रः समुद्दिष्टः सर्वविद्याधराधिपः । तस्माद्धि खेचराः सर्वे विभ्यति प्रतिकूलने ॥ १३ ॥ ततः स्वयं मयेनोक्तं युष्माकं वेमि नो मनः । मह्यं तु रुचितः ख्यातः सिद्धविद्यो दशाननः १४ भवितासौ महान् कोऽपि जगतोऽद्भुतकारणं । अन्यथा जायते सिद्धिर्विद्यानामाशु नाल्पके १५ ततोऽनुमेनिरे तस्य तद्वाक्यं प्रमदान्विताः । मारीचप्रमुखाः सर्वे मंत्रिणो मंत्रकोविदाः ॥१६॥ मंत्रिणो भ्रातरश्चास्य मारीचाद्या महाबलाः । मारीचश्च ततश्चके मानसं त्वरयान्वितं ॥ १७ ॥ ग्रहेष्वभिमुखस्थेषु सौम्येषु दिवसे शुभे । क्रूरग्रहेष्वपश्यत्सु लग्ने कुशलतावहे ॥ १८ ॥ कृत्यं कालातिपातेन नेति ज्ञात्वा ततो मयः । पुष्पांतकविमानेन प्रस्थितः कन्ययान्वितः ॥१९॥ ततो मंगलगीतेन प्रमदानां नभस्तलं । तूर्यनादस्य विच्छेदशब्दात्मकमिवाभवत् ॥ २०॥ पुष्पांतकाद्विनिष्क्रम्य भीमारण्ये स्थिता इति । युवभिः कथितं तस्य निवृत्य प्रथमा गतिः॥२१॥ तद्देशवेदिभिश्चारैः कथितं तद्वनं ततः । चलितोऽसावपश्यच्च मेघानामिव संचयं ॥ २२ ॥ चारः कश्चिदुवाचेति पश्येदं देव सदनं । स्निग्धध्यांतचयाकारं निविडोत्तुंगपादपं ॥ २३ ॥ अद्रेलाहकाख्यस्य संध्यावर्तस्य चांतरं । मंदारुणमिवारण्यं सम्मेदाष्टापदागयोः ॥ २४ ॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org