________________
पद्मपुराणम् ।
१७४
अष्टम पर्व।
अथाष्टमं पर्व। अथासीदक्षिणश्रेण्या भास्करप्रतिमो छुतौ । सुवीरोऽसुरसंगीतिपुरे मयखगेश्वरः ॥१॥ दैत्यत्वेन प्रसिद्धस्य समस्ति तस्य भूतले । नाना हेमवती भार्या योषिद्गुणसमन्विता ॥२॥ सुप्ता मंदोदरी नाम सर्वावयवसुंदरी । तनूदरी विशालाक्षी लावण्यजलवेणिका ॥३॥ नवयौवनसंपूर्णा दृष्ट्वा तामन्यदा पिता । चिंताव्याकुलितः प्राह दयितामिति सादरं ॥ ४ ॥ आरूढा नवतारुण्यं वत्सा मंदोदरी प्रिये । गुणिते वै तदीया मे चिंता मानसमाश्रिता ॥५॥ कन्यानां यौवनारंभे संतापानिसमुद्भवे । इंधनत्वं प्रपद्यते पितरौ स्वजनैः समं ॥ ६॥ एवमर्थ ददत्यस्या जन्मनोनंतरं बुधाः । लोचनांजलिभिस्तोयं दुःखाकुलितचेतसः ॥ ७॥ अहो भिनत्ति मर्माणि वियोगो देहनिस्मृतेः । अपत्यैर्जनितो नीतेरागत्यासंस्तुतैर्जनैः॥८॥ तब्रूहि तरुणी कस्मै ददाम्येतां प्रिये वयं । गुणैः कुलेन कांत्या च क एतस्याः समो भवेत्॥९॥ इत्युक्ता प्राह तं देवी कन्यानां देहपालने । जनन्य उपयुज्यंते पितरो दानकर्मणि ॥१० ।। मात्र ते रुचितं दानं मह्यं तत्रैव रोचते । भर्तृच्छंदानुवर्तिन्यो भवंति कुलबालिकाः ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org