________________
पद्मपुराणम् ।
१७३
सप्तमं पर्व । भरतस्य स खंडांस्त्रीन् भोक्ष्यते बलविक्रमः । सत्त्वप्रतापविनयश्रीकीर्तिरुचिसमाश्रयः ॥ ३८९॥ गृहीतां रिपुणा लक्ष्मी मोचयिष्यत्यसावपि । नैतचित्रं यतस्तस्यां संप्राप्स्यति परां श्रियं।।३९०॥ स त्वं महोत्सवो जातः कुलस्य शुभलक्षणः । उपमानविमुक्तेन रूपेण हृतलोचनः ॥ ३९१ ॥ इत्युक्तोसौ जगादेवमस्त्विति प्रणताननः । शिरस्यंजलिमाधाय कृतसिद्धनमस्कृतिः ॥३९२॥ प्रभावात्तस्य बालस्य बंधुवर्गस्ततः सुखं । अध्युवास यथास्थानमरातिभयवर्जितः ॥ १९३॥ एवं पूर्वभवार्जितेन पुरुषाः पुण्येन यांति श्रियं । कीर्तिच्छन्नादिगंतरालभुवना नास्मिन्वयः कारणं॥ अग्नेः किन्न कणः करोति विपुलं भस क्षणात्काननमित्तानां करिणां भिनत्ति निबहं सिहस्य वा नार्भकः बोधं ह्याशु कुमुद्वतीषु कुरुते शीतांशुरोचेलवः । संता प्रणुदन दिवाकरकरैरुत्पादितं प्राणिनां ॥ निद्राविद्रुतहेतुभिश्च समये जीमूतमालानिभं । ध्वान्तं दूरमपाकरोति किरणैरुद्योतमात्रो रविः ३९५
इत्याचे रविषेणाचार्यप्रोक्ते पद्मचरिते दशग्रीवामिधानं नाम सप्तमं पर्व ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org