________________
१७२
पद्मपुराणम् ।
सप्तमं पर्व। आनंदितश्च तद्वाक्यरूर्जितैर्हिमशीतलैः । समस्तशत्रुसंघातघातवीजांकुरोद्गमैः ॥ ३७६ ॥ पुंडरीकेक्षणं पश्यन्सुमाली तं ततोर्भकं । शोक क्षणात्समुत्सृज्य पुनरानंदमागतः ॥ ३७७ ॥ इति चोवाच तं हृद्यैर्वचोभिर्वितथेतरैः । अहो वत्स तवोदारं सत्त्वं तोषितदैवतं ॥ ३७८ ॥ अहो द्युतिरियं जित्वा स्थिता तव दिवाकरं । अहो गांभीर्यमुत्सार्य स्थितमेतन्नदीपतिं ॥३७९॥ अहो पराक्रमः कांत्या सहितोयं जिनातिगः । अहो रक्षःकुलस्यासि जातस्ततविशेषकः ॥३८०॥ मंदरेण यथा जंबूद्वीपः कृतविभूषणः । नभस्तलं शशांकेन यथा तिग्मकरेण च ॥ ३८१॥ सुपुत्रेण तथा रक्षःकुलमेतद्दशानन । त्वयालोकमहाश्चर्यकारिचेष्टेन भूषितं ॥ ३८२ ॥ आसंस्तोयदवाहाद्या नरास्त्वत्कुलपूर्वजाः । भुक्त्वा लंकापुरी कृत्वा सुकृतं ये गता शिवं ॥३८३॥ अस्मद्यसनविच्छेदः पुण्यैर्जातोसि सांप्रतं । वक्रेणैकेन ते तोषात्कथयामि कथं कां ॥ ३८४ ॥ नभश्चरगणैरेभिः प्रत्याशा जीवितं प्रति । मुक्ता सती पुनर्बद्धा त्वय्युत्साहपरायणे ॥ ३८५ ॥ कैलाशमन्यदायातरस्माभिवंदितुं जिनं । प्रणम्यातिशयज्ञानः पृष्टः श्रमणसत्तमः ॥ ३८६ ॥ भविता पुनरस्माकं कदा नाथ समाश्रयः । लंकायामिति सद्वाक्यमेवमाहानुकंपकः॥ ३८७ ॥ लप्स्यते भवतः पुत्राज्जन्म यः पुरुषोत्तमः । संभूतायां वियविंदोः स लंकायां प्रवेशकः ॥३८८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org