________________
पद्मपुराणम् ।
१७६
सप्तमं पर्व। चंद्रादित्यप्रतिस्पर्दिछायावच्छादितात्माभिः । आमोदवासिताशेषदिक्चक्रजलपूरितैः ॥३६।। एकानेकमुखैः प्रांतभ्रातभ्रमरमंडलैः । गर्जद्भिजलपातेन गंभीरजलदैरिव ॥३६४ ॥ गंधैरुद्वर्तनः कांतिविधानकुशलैस्तथा । अभिषेकः कृतस्तेषां तूर्यनादादिनंदितः ॥ ३६५।। अलंकृतस्ततो देहो दिव्यवस्त्रविभूषणैः । मंगलानि प्रयुक्तानि कुलनारीभिरादरात् ॥ ३६६ ॥ ततो देवकुमाराभैः स्वजनानंददायिभिः । गुरूणां विनयादेतैः कृतं चरणपंदनं ॥ ३६७ ॥ अत्याशिषस्ततो दृष्ट्वा तेषां विद्योत्थसंपदः । जीवतातिचिरं कालमिति तान् गुरवोऽबुवन् ३६८ सुमाली माल्यमान्सूयेरजा रक्षरजास्तथा । रत्नश्रवाश्च तान्स्नेहादालिलिंग पुनः पुनः ॥३६९॥ समं बांधवलोकेन भृत्ववर्गेण चावृताः । चकुरभ्यवहारं ते स्वेच्छाकल्पितसंपदः ॥ ३७॥ गुरुषु प्राप्तपूजेषु ततो वस्त्रादिदानतः । यथार्ह भृत्यवर्गे च संप्राप्तप्रतिमानने ॥ ३७१ ॥ विश्रब्धा गुरवोपृच्छंस्तान् प्रीतिविकचेक्षणाः । दिवसानियतो वत्साः सुखेन सुस्थिता इति ३७२ ततस्ते मस्तके कृत्वा करयुग्मं प्रणामिनः । ऊचुनः कुशलं नित्यं प्रसादाद्भवतामिति ॥३७३ ॥ मालिनः संकथाप्राप्तं कथयन्भरणं ततः । सुमाली शोकभारेण सद्यो मूच्छो समागतः ॥३७४॥ रत्नश्रवसुतेनासौ ततः शीतलपाणिना । संस्पृश्य पुनरानीतो ज्येष्ठेन व्यक्तचेतना ॥ ३७५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org